________________
श्रीआचा- पादिस्वरूपवद्, एवं ह्यभेदः स्याद्-यदि रूपादौ समुपलभ्यमानेऽन्येऽपि समुपलभ्येरन, अन्यथा विरुद्धधर्माध्यासा- लोक.वि.२ राङ्गवृत्तिः
दाद्भिद्येरन् घटपटवदिति । तदेवं भेदाभेदोपपत्तिभियोकुलितमतिः शिष्यः पृच्छति-उभयथाऽपि दोषापत्तिदर्शनात्कथं (शी०) गृहीमः ?, आचार्य आह-अत एव भेदाभेदोऽस्तु, तत्राभेदपक्षे द्रव्यं गुणो भेदपक्षे तु भावो गुण इति, तथाहि-गुणगु
उद्देशकः१ णिनोः पर्यायपर्यायिणोः सामान्यविशेषयोरवयवावयविनोर्भेदाभेदव्यवस्थानेनैवात्मभावसद्भावात्, आह हि-"दव्वं ॥८५॥
तापजवविजुयं दव्वविउत्ता य पज्जवा णत्थि । उप्पायहिइभंगा हंदि दवियलक्खणं एयं ॥ १ ॥ नयास्तव स्यात्सदला
ञ्छिता इभे, रसोपविद्धा इव लोहधातवः। भवन्त्यभिप्रेतफला यतस्ततो, भवन्तमार्याः प्रणता हितैषिणः॥२॥” इ-18 त्यादि स्वयूथ्यैरत्र बहु विजृम्भितमित्यलं विस्तरेण । एतदेव नियुक्तिकारः समस्तद्रव्यप्रधाने जीवद्रव्ये गुणमभेदेन व्यवस्थितमाह
संकुचियवियसियत्तं एसो जीवस्स होइ जीवगुणो। पूरेइ हंदि लोग बहुप्पएसत्तणगुणेणं ॥ १७१ ॥ जीवो हि सयोगिवीर्यसद्मव्यतया प्रदेशसंहारविसर्गाभ्यामाधारवशात् प्रदीपवत् सङ्कुचति विकसति च, एष जीवस्यात्मभूतो गुणो, भेदं विनाऽपि षष्ठयुपलब्धेः, तद्यथा-राहोः शिरः शिलापुत्रकस्य शरीरमिति, तद्भव एव वा सप्तसमुद्घातवशात् सङ्कुचति विकसति च, सम्यक्-समन्ततः उत्-प्राबल्येन हननम् -इतश्चेतश्चात्मप्रदेशानां प्रक्षेपणं समुद्घातः, स च कषायवेदनामारणान्तिकवैक्रियतैजसाहारककेवलिसमुद्घातभेदात् सप्तधा, तत्र कषायसमुद्घातोऽनन्ता
१ द्रव्यं पर्यायवियुतं द्रव्यवियुताश्च पर्यवा न सन्ति । उत्पादस्थितिभना हन्दि द्रव्यलक्षणमेतत् ॥१॥