________________
SHISHA USHAHI SASA
यष्टिः-'संदिशत किं भणामीति !, सूरिः प्रत्याह-'वन्दित्वाऽभिधत्स्वे'त्येवमुक्तोऽभिवन्द्योत्थितो भणति-'युष्माभिर्मम महाव्रतान्यारोपितानि इच्छाम्यनुशिष्टि'मिति, आचार्योऽपि प्रणिगदति-'निस्तारकपारगो भवाचार्यगुणैर्वर्द्धस्व' वचनविरतिसमनन्तरं च सुरभिवासचूर्णमुष्टिं शिष्यस्य शिरसि किरति, पश्चाद्वन्दनकं दत्त्वा प्रदक्षिणीकरोत्याचार्य नमस्कारमावर्तयन् , पुनरपि वन्दते, तथैव च करोति सकलक्रियानुष्ठानम् , एवं त्रिप्रदक्षिणीकृत्य विरमति शिष्यः, शेषाः साधवश्चास्य मूर्ध्नि युगपद्धासमुष्टिं विमुञ्चन्ति सुरभिपरिमलां यतिजनंसुलभकेसराणि वा, पश्चात्कारितकायोत्सर्गः
सूरिरभिदधाति-गणस्तव कोटिका स्थानीय कुलं वैराख्या शाखा अमुकाभिधान आचार्य उपाध्यायश्च, साध्व्याः प्रवदूर्तिनी तृतीयोद्देष्टव्या, यथाऽऽसन्नं चोपस्थाप्यमाना रत्नाधिका भवन्ति, पश्चादाचाम्लं निर्विकृतिकं वा स्वगच्छसन्त
तिसमायातमाचरन्तीति । एवमेतदध्ययनमादिमध्यान्तकल्याणकलापयोगि भव्यजनतामनःसमाधानाधायि प्रियविप्रयोPगादिदुःखाव-बहुलकषायझषादिकुलाकुलविषमसंसृतिसरित्तारणसमर्थममलदयैकरसमसकृदभ्यसितव्यं मुमुक्षुणेति ॥ - ||चार्यश्रीशीलाकविरचिता शस्त्रपरिज्ञाध्ययनटीका समाप्तेति (ग्रन्थाग्रं श्लोकाः २२२१)॥