________________
येन संसारे जीवाः स सङ्गः-अष्टविधं कर्म विषयसङ्गो वा तं सङ्गं प्रकुर्वन्ति, सङ्गाच्च पुनरपि संसारः, आजवंज़वीभावरूपः, एवंप्रकारमपायमवाप्नोति षड्जीवनिकायघातकारीति ॥अथ यो निवृत्तस्तदारम्भात्स किंविशिष्टो भवतीत्यत आह
से वसुमं सव्वसमण्णागयपण्णाणेणं अप्पाणेणं अकरणिजं पावं कम्मं णो अण्णेसिं, तं परिणाय मेहावी णेव सयं छज्जीवनिकायसत्थं समारंभेजा णेवऽपणेहिं छजीवनिकायसत्थं समारंभावेजा णेवऽपणे छज्जीवनिकायसत्थं समारंभंते समणुजाणेजा, जस्सेते छज्जीवनिकायसत्थसमारंभा परिणाया भवंति से हु मुणी परिण्णायकम्मे (सू०६१)
त्तिबेमि ॥ इति सप्तमोदेशकः । इति प्रथममध्ययनम् ॥ 'से' इति पृथिव्युद्देशकाद्यभिहितनिवृत्तिगुणभाक् षड्जीवनिकायहनननिवृत्तो 'वसुमान्' वसूनि द्रव्यभावभेदाद्विधाद्रव्यवसूनि-मरकतेन्द्रनीलवज्रादीनि भाववसूनि-सम्यक्त्वादीनि तानि यस्य यस्मिन्वा सन्ति स वसुमान् द्रव्यवानित्यर्थः, इह च भाववसुभिर्वसुमत्त्वमङ्गीक्रियते, प्रज्ञायन्ते यैस्तानि प्रज्ञानानि-यथावस्थितविषयग्राहीणि ज्ञानानि सर्वाणि समन्वाग-ले तानि प्रज्ञानानि यस्यात्मनः स सर्वसमन्वागतप्रज्ञानः-सर्वावबोधविशेषानुगतः सर्वेन्द्रियज्ञानैः पटुभिर्यथावस्थितविषयग्राहिभिरविपरीतैरनुगत इतियावत् , तेन सर्वसमन्वागतप्रज्ञानेनात्मना, अथवा सर्वेषु द्रव्यपर्यायेषु सम्यगनुगतं प्रज्ञानं
१ इतः प्राक् 'पुनः पुनस्तत्रैवोत्पत्तिः' इति प्र. न च युक्तः, २ पुनः पुनस्तत्रैव सङ्गः कर्मोत्पत्तिरूपः.
था. सू. १४