SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी० ) ॥ ७१ ॥ विशिष्टम् ? - 'असातम्' असद्वेद्यकर्माशविपाकजमित्यर्थः, तथा 'अगरिनिर्वाण' मिति समन्तात् सुखं परिनिर्वाणं न परिनिर्वाणमपरिनिर्वाणं समन्तात् शरीरमनः पीडाकरमित्यर्थः, तथा 'महाभय' मिति महच्च तद्भयं च महाभयं, नातः परमन्यद् भयमस्तीति महाभयं तथाहि - सर्व्वेऽपि शारीरान्मानसाच्च दुःखादुद्विजन्ते प्राणिन इति, इति शब्दएवमर्थे, एवमहं ब्रवीमि सम्यगुपलब्धतत्त्वो यत्प्रागुक्तमिति । एतच्च ब्रवीमीत्याह - 'तसंती' त्यादि, एवंविधेन च असातादिविशेषणविशिष्टेन दुःखेनाभिभूतास्त्रस्यन्ति-उद्विजन्ति प्राणा इति प्राणिनः कुतः पुनरुद्विजन्तीति दर्शयति-प्रगता दिक् प्रदिग्विदिक् इत्यर्थः, ततः प्रदिशः सकाशादुद्विजन्ति, तथा प्राच्यादिषु च दिक्षु व्यवस्थितास्त्रस्यन्ति एताश्च प्रज्ञाप| कविधिविभक्ता दिशोऽनुदिशश्च गृह्यन्ते, जीवव्यवस्थान श्रवणात्, ततश्चायमर्थः प्रतिपादितो भवति काक्का-न काचिद्दिगनुदिग्वा यस्यां न सन्ति त्रसाः त्रस्यन्ति वा यस्यां स्थिताः कोशिकारकीटवत्, कोशिकारकीटो हि सर्वदिग्भ्योऽनुदिग्भ्यश्च विभ्यदात्मसंरक्षाणार्थं वेष्टनं करोति शरीरस्येति, भावदिगपि न काचित्तादृश्यस्ति यस्यां वर्त्तमानो जन्तुर्न त्रस्येत् शारीरमानसाभ्यां दुःखाभ्यां सर्वत्रं नरकादिषु जंघन्यन्ते प्राणिनोऽतस्त्रासपरिगतमनसः सर्वदाऽवगन्तव्याः ॥ एवं सर्वत्र दिक्ष्वनुदिक्षु च त्रसाः सन्तीति गृहीम, दिग्विदिग्व्यवस्थिताखसास्त्रस्यन्तीत्युक्तं, कुतः पुनस्त्रस्यन्ति ? - यस्मापुनः कारणं तानारम्भन्त इत्यत आह तत्थ तत्थ पुढो पास आतुरा परितावंति, संति पाणा पुढो सिया ( सू० ५१ ) 'तत्र तत्र' तेषु तेषु कारणेषूत्पन्नेषु वक्ष्यमाणेषु अर्चाजिनशोणितादिषु च पृथग्विभिन्नेषु प्रयोजनेषु पश्येति शिष्य अध्ययनं १ उद्देशकः ६ ॥ ७१ ॥
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy