SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) अध्ययन उद्देशकः ५ द्रव्याणा वा हंसकारण्डवचक्रवाकादीनां व्योम्नि क्रीडतामावर्तनादावर्त्तः, करणे तु तेनैव जलद्रव्येण भ्रमता यदन्यदावर्त्तते तृणकलिञ्चादि स द्रव्येणावर्त्तः, तथा त्रपुसीसकलोहरजतसुवर्णैरावर्त्यमानैर्यदन्यत्तदन्तःपात्यावर्त्यते स द्रव्यैरावर्त्तत इति, अधिकरणविवक्षायामेकस्मिन् जलद्रव्ये आवर्तस्तथा रजतसुवर्णरीतिकात्रपुसीसकेष्वेकस्थीकृतेषु बहुषु द्रव्येष्वावर्तः, भावावर्तो नामान्योऽन्यभावसङ्क्रान्तिः, औदयिकभावोदयाद्वा नरकादिगतिचतुष्टयेऽसुमानावर्त्तते, इह च भावावर्तेनाधिकारो न शेषैरिति ॥ अथ य एते गुणाः संसारावर्त्तकारणभूताः शब्दादयो वनस्पतेरभिनिर्वृत्तास्ते किं नियतदिग्देशभाजः उत सर्वदिक्षु इत्यत आह उहुं अवं तिरियं पाईणं पासमाणे रूवाइं पासति, सुणमाणे सद्दाइं सुणेति, उढे अहं पाईणं मुच्छमाणे रूवेसु मुच्छति, सद्देसु आवि (सू० ४१) प्रज्ञापकदिगङ्गीकरणादूर्द्ध दिग्व्यवस्थितं रूपगुणं पश्यति प्रासादतलहादिषु, 'अध'मित्यवाः अधस्तात् गिरिशिखरप्रासादाधिरूढोऽधोव्यवस्थितं रूपगुणं पश्यति, अधःशब्दार्थे अवाडिन्त्ययं वर्त्तते, गृहभित्त्यादिव्यवस्थितं रूपगुणं तिर्यक् पश्यति, तिर्यक्शब्देन चात्र दिशोऽनुदिशश्च परिगृह्यन्ते, ताश्चेमाः–'प्राचीन मिति पूर्वा दिग्, एतच्चोपलक्षणम् , अन्या अप्येतदाद्यास्तिर्यग्दिशो द्रष्टव्या इति, एतासु दिक्षु पश्यन् चक्षुर्ज्ञानपरिणतो रूपादिद्रव्याणि चक्षुर्याह्यतया परिणतानि पश्यति-उपलभत इत्यर्थः, तथा तासु च शृण्वन् शृणोति शब्दानुपयुक्तः श्रोत्रेण नान्यथेति ॥ अत्रोपलब्धिमात्रं
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy