________________
श्रीआचाराङ्गवृत्तिः (शी०)
अध्ययनं १ उद्देशकः ५
॥६१॥
BABAMAAR
किंची सकायसत्थं किंची परकाय तदुभयं किंचि । एयं तु दव्वसत्थं भावे य असंजमो सत्थं ॥१५॥ किश्चित् स्वकायशवं-लकुटादि किञ्चिच्च परकायशवं-पाषाणाझ्यादि तथोभयशस्त्रं-दात्रदात्रिकाकुठारादि, एतद् द्रव्यशस्त्र, भावशस्त्रं पुनरसंयमः दुष्प्रणिहितमनोवाकायलक्षण इति ॥ सकलनिर्युक्त्यर्थपरिसमाप्तिप्रचिकटयिषयाऽऽह
सेसाई दाराई ताई जाई हवंति पुढवीए । एवं वणस्सईए निज्जुत्ती कित्तिया एसा ॥१५१॥ उक्तव्यतिरिक्तशेषाणि तान्येव द्वाराणि यानि पृथिव्यामभिहितानि ततस्तद्वाराभिधानाद्वनस्पती नियुक्तिः 'कीर्तिता' व्यावर्णितेति ॥ साम्प्रतं सूत्रानुगमे अस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम्- तं णो करिस्सामि समुद्राए, मत्ता मइमं, अभयं विदित्ता, तं जे णो करए, एसोवरए,
एत्थोवरए, एस अणगारेत्ति पवुच्चई (सू०३९) ol अस्य चानन्तरपरम्परादिसूत्रैः सम्बन्धः प्राग्वद्वाच्यः, उक्तं प्राक् 'सातान्वेषिणो हि वनस्पतिजन्तूनां दुःखमुदीर
यन्ति, ततश्च तन्मूलमेव दुःखगहने संसारसागरे भ्राम्यन्ति सत्त्वाः' इत्येवं विदितकटुकविपाकः समस्तवनस्पतिसत्त्वविषयविमर्दनिवृत्तिमात्यन्तिकीमात्मनि दर्शयन्नाह-'तत्' वनस्पतीनां दुःखमहं दृष्टप्रत्यपायो न करिष्ये, यदिवा तहु:खोत्पत्तिनिमित्तभूतं वनस्पतावारम्भ-छेदनभेदनादिरूपं नो करिष्ये मनोवाकायैः, तथाऽपरैर्न कारयिष्ये, तथा कुर्वतश्चान्यान्नानुमंस्ये, किं कृत्वेति दर्शयति-सर्वज्ञोपदिष्टमार्गानुसृत्या सम्यक् प्रव्रज्योत्थानेनोत्थाय समुत्थाय, प्रव्रज्यां
॥६१॥