________________
एवं च सत्यात्मवत्प्रसाधितमग्निलोकं यः प्रत्याचक्षीत सोऽतिसाहसिक आत्मानमभ्याख्याति-निराकरोति, यश्चात्माभ्याख्यानप्रवृत्तः स सदैवाग्निलोकमभ्याख्याति, सामान्यपूर्वकत्वाद्विशेषाणां, सति ह्यात्मसामान्ये पृथिव्याद्यात्मविभागः सिद्ध्यति, नान्यथा, सामान्यस्य विशेषव्यापकत्वात्, व्यापकविनिवृत्तौ च व्याप्यस्याप्यवश्यंभाविनी विनिवृत्तिरितिकृत्वा । एवमयमग्निलोकः सामान्यात्मवन्नाभ्याख्यातव्य इति प्रदर्शितम् , अधुनाऽग्निजीवप्रतिपत्तौ सत्यां तद्विषयसमारम्भकटुकफलपरिहारोपन्यासाय सूत्रमाह___ जे दीहलोगसत्थस्स खेयपणे से असत्थस्स खेयपणे जे असत्थस्स खेयपणे से दीह
लोगसत्थस्स खेयण्णे (सू० ३२) | 'य' इति मुमुक्षुर्दीर्घलोको-वनस्पतिर्यस्मादसौ कायस्थित्या परिमाणेन शरीरोच्छ्रयेण च शेपैकेन्द्रियेभ्यो दीर्को वर्त्तते, तथाहि-कायस्थित्या तावत् 'वणस्सइकाइए णं भंते ? वणस्सइकाइएत्ति कालओ केवच्चिरं होइ ?, गोयमा ! अणंत काल | अणंताओ उस्सप्पिणिअवसप्पिणिओ, खेत्तओ अणंता लोया, असंखेज्जा पोग्गलपरियट्टा, ते णं पुग्गलपरियट्टा आवलियाए असंखेज्जइभागे' परिमाणतस्तु 'पडैप्पन्नवणस्सइकाइयाणं भंते! केवतिकालस्स निल्लेवणा सिया ?, गोयमा!
वनस्पतिकायो भदन्त । वनस्पतिकाय इति कालतः कियचिरं भवति !, गौतम ! अनन्तं कालम् , अनन्ता उत्सर्पिण्यवसर्पिण्यः, क्षेत्रतोऽनन्ता लोकाः, असंख्येयाः पुद्रलपरावर्ताः, ते पुद्रलपरावतो आवलिकाया असङ्ख्येये भागे. २ प्रत्युत्पन्नवनस्पतिकायिकानां भदन्त! कियता कालेन निर्लेपना स्यात् ?, गौतम ! प्रत्युत्पन्नवनस्पतिकायिकानां नास्ति निलेपना.