SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) अध्ययनं १ उद्देशकः४ ॥४९॥ 'तेजसोऽपि अग्नेरपि 'द्वाराणि' निक्षेपादीनि यानि पृथिव्याः समधिगमेऽभिहितानि तान्येव वाच्यानि, अपवाद दर्शयितुमाह-नानात्वं' भेदो विधानपरिमाणोपभोगशस्त्रेषु, तुरवधारणे, विधानादिष्वेव च नानात्वं नान्यत्रेति, चशब्दालक्षणद्वारपरिग्रहः ॥ यथाप्रतिज्ञातनिर्वहणार्थमादिद्वारव्याचिख्यासयाऽऽह दुविहा य तेउजीवा सुहमा तह बायरा य लोगंमि । मुहुमा य सव्वलोए पंचेव य वायरविहाणा ॥११७॥ स्पष्टा ॥ बादरपञ्चभेदप्रतिपादनायाहइंगाल अगणि अच्ची जाला तह मुम्मुरे य योद्धव्वे । बायरतेउविहाणा पंचविहा वणिया एए ॥११८॥ दग्धेन्धनो विगतधूमज्वालोऽङ्गार:-, इन्धनस्थः प्लोषक्रियाविशिष्टरूपः तथा विद्युदुल्काऽशनिसहर्षसमुत्थितः सूर्यमणिसंसृतादिरूपश्चाग्निः, दाह्यप्रतिबद्धो ज्वालाविशेषोऽर्च, ज्वाला छिन्नमूलाऽनङ्गारप्रतिबद्धा, प्रविरलाग्निकणानुविद्धं भस्म मुर्मुरः, एते बादरा अग्निभेदाः पञ्च भवन्तीति ॥ एते च बादराग्नयः स्वस्थानाङ्गीकरणान्मनुष्यक्षेत्रेऽर्द्धतृतीयेषु द्वीपसमुद्रेष्वव्याघातेन पञ्चदशसु कर्मभूमिषु व्याघाते सति पञ्चसु विदेहेषु, नान्यत्र, उपपाताङ्गीकरणेन लोकासङ्खयेय|भागवर्तिनः, तथा चागमः-"उववाएणं दोसु उहुकवाडेसु तिरियलोयतट्टे (है) य” अस्यायमर्थः-अर्द्धतृतीयद्वीपसमुद्रबाहल्ये पूर्वापरदिक्षणोत्तरस्वयम्भूरमणपर्यन्तायते अधिोलोकप्रमाणे कपाटे तयोः प्रविष्टा बादराग्निपुत्पद्यमानकास्तव्यपदेशं लभन्ते, तथा 'तिरियलोयतट्टे (हे) य'त्ति तिर्यग्लोकस्थालके च व्यवस्थितो बादराग्निषूत्पद्यमानो बादराग्निव्यप-1 देशभाग् भवति । अन्ये तु व्याचक्षते-तयोस्तिष्ठतीति तत्स्थः, तिर्यग्लोकश्चासौ तत्स्थश्च तिर्यग्लोकतत्स्थः, तत्र च स्थित ॥४९॥
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy