________________
श्रीआचाराङ्गवृत्तिः (शी०)
अध्ययनं१ उद्देशकः३.
॥४५॥
णगाराणं अंतिए इहमेगेसिं णायं भवति-एस खलु गंथे एस खलु मोहे एस खलुमारे एस खलु णरए, इच्चत्थं गड्डिए लोए जमिणं विरूवरूवेहि सत्थेहिं उदयकम्मसमारम्भेणं उदयसत्थं समारंभमाणे अण्णे अणेगरूवे पाणे विहिंसइ । से बेमि
संति पाणा उदयनिस्सिया जीवा अणेगे (सू० २३) 'लज्जमाना' स्वकीयं प्रव्रज्याभासं कुर्वाणाः यदिवा सावद्यानुष्ठानेन लज्जमाना:-लज्जां कुर्वाणाः 'पृथग्'विभिन्नाः शाक्योलूककणभुक्कपिलादिशिष्याः, पश्येति शिष्यचोदना, अविवक्षितकर्मका अपि अकर्मका भवन्ति, यथा-पश्य मृगो धावतीति, द्वितीयार्थे वा प्रथमा सुव्यत्ययेन द्रष्टव्या, ततश्चायमर्थः-शाक्यादीन् गृहीतप्रव्रज्यानपि सावद्यानुष्ठानरतान् पृथग्विभिन्नान् पश्य, किं तैरसदाचरितं ? येनैवं प्रदर्यन्त इति दर्शयति-अनगारा वयमित्येके शाक्यादयः प्रवदन्तो 'यदिदं' यदेतत्, काक्का दर्शयति-'विरूपरूपैः' उत्सेचनाग्निविध्यापनादिशस्त्रैः स्वकायपरकायभेदभिन्नैरुदककर्म समारभन्ते, उदककर्मसमारम्भेण च उदके शस्त्रं उदकमेव वा शस्त्रं समारभन्ते, तच्च समारभमाणोऽनेकरूपान्वनस्पतिद्वीन्द्रियादीन्विविधं हिनस्ति, तत्र खलु भगवता परिज्ञा प्रवेदिता, यथा अस्यैव जीवितव्यस्य परिवन्दनमाननपूजनार्थ जातिमरणमोचनार्थ दुःखप्रतिघातहेतुं यत् करोति तदर्शयति-स स्वयमेवोदकशस्त्रं समारभते अन्यैश्चोदकशस्त्रं समारम्भयति अन्यांश्चोदकशस्त्रं समारभमाणान् समनुजानीते, तच्चोदकसमारम्भणं तस्याहिताय भवति, तथा
94 CARACALHOSAAM
॥४५॥