________________
द्वारगाथार्थः
श्रोदे० चैत्यश्रीधर्म संघाचारविधौ ॥३४॥
नत्वेकमपि वारमिन्येवशब्दो नियुक्ते,यदागमः-'तिक्खुत्तो मुद्धाणं धरणितलंसि नमे(नियेसे) इति, शिरसा त्रिभूमि स्पर्शयतीत्यर्थः, एकश्चशब्दः समुच्चये द्वितीयस्तु विशेषणे,रा चैकांगादिकमपि प्रणामं कुर्वद्भिर्भूम्याकाशशिरःप्रभृतिष्वपि सर्वत्र शिरः१ करारजस्यादि ३त्रिः परावर्तनीयमिति विशिनष्टि, एवं च 'पणियाओ पंचंगों' इत्युच्यमानं न विरुध्यते, प्रणिपातभेदांगण्यकिल्याएनपर|त्वात् तस्याः,यद्वा भूमौ जानुन्यास१ शिरःस्पर्श२ शिरोजलिकरण३रूपास्त्रयः प्रणामाः शक्रस्तवादौ विधयाः उक्त च-“वामं आणु अंचेई' इत्यादि, अथवा अंजलिबद्धोऽर्धावनतः पंचांगश्चेति अत्रैव वक्ष्यमाणलक्षणास्त्रथः प्रणामा इति तृतीय त्रिक३। त्रिविधा च-त्रिप्रकारा अंगाग्रभावात्मिका पुष्पाभिषस्तुत्यादिनिर्माप्यस्वभावाः पंचप्रकाराष्टप्रकारा सर्वप्रकाररूपा वा अत्रैव वक्ष्यमाणस्वरूपा पूजा-अर्चा विधेया, तथेत्यागमोक्तनीत्या तदुक्ताशेषशेषतत्पूजाभेदानामत्रांतर्भावरूपया, उक्तं चैतच्चूणौं-"तिविदा पूया-पृष्फेहि निवेजेहिं थुईहिं य, सेसभेया इत्थं चेव पविसतित्ति यद्वा तथेति 'सयमाणयणे पढमे त्यादिस्थानांतरप्रसिद्धाऽनेकधापूजात्रयाणां ख्यापकः, तानि च अग्रे दर्शयिष्याम इति चतुर्थ त्रिकं४ा अवस्थात्रिकस्य-छपस्थकेवलिसिद्धत्वरूपस्य भावनं-पुनः पुनः चिंतन, 'भावयेद् ज्योतिरांतर'मिति वचनात् पिंडस्थपदस्थरूपातीतध्यानकृते कर्तव्यमेवेत्येवशब्दोऽवधारयति, तथैव पिंडस्थादिध्यानसिद्धेस्तदर्थत्वाच्च सर्वस्यापि सद्धर्मानुष्ठानोपक्रमस्य, रूपस्थध्यानं तु दर्शनमात्रादपि सिध्यति, उक्त च-"पश्यति प्रथमं रूपं, स्तौति ध्येयं ततः पदैः । तन्मयः स्याततः पिंडे, रूपातीतः क्रमाद् भवेत् ।।१।। इति पंचमत्रिकं ५। तिसृणां-ऊोधस्तियंग्रूपाणां वामदक्षिणपाश्चात्यलक्षणानां वा दिशां निरीक्षणस्य-आलोकस्य विरति-वर्जनं विदध्यात् , तत्रोपयोगे वंदनस्यानादरतादिदोषप्रसंगात् , यस्यां दिशि तीर्थवि तत्संमुखमेव निरीक्षेतेत्यर्थः, यदागमः-'भवणेकगुरुजिणिदपडिमासु विणिवेसिय
Tamannelhsarameter
॥३४॥