________________
श्रीदे० चैत्य०श्रीधर्म० संघाचारविधौ
॥३४१ ॥
सकयभासाबद्धो गंभीरत्थो थउत्ति विकखाओ । पाइयभासाबद्धं थुत्तं विविछेहि छंदेहिं ।। २ ।। (८४१ ) चिइवंदण कियकिचो पमोयरोमंच उद्दिहसरीरो । इद्वफलपत्थणपरं इय पणिहाणं कुणइ तहयं ॥ ६ ॥ ( ८४५) 'जय वीयराये' त्यादि, जय वीतराग ! जगद्गुरो इति भगवतः त्रिलोकनाथस्य बुद्धौ प्रणिधापनार्थमामंत्रणं, भगवन् ! जायतां ममेत्यात्मनिर्देशः तव प्रभावतः - सामर्थ्येन भगवन्निति पुनः संवोधनं भक्त्यतिशयख्यापनार्थ, किं तदित्याह - भवनिर्वेदः - संसारनिर्वेदः, नहि मत्रादनिर्विण्णो मोक्षाय यतते, अनिर्विण्णस्य च प्रतिबंधात् मोक्षाय यत्नोऽयत्न एव, निर्जीवक्रियाकल्पत्वात्, तथा 'मार्गानुसारिता' अस ग्रहविजयेन तच्चानुसारिता, तथा 'इष्टफलसिद्धि:' अभिमतार्थनिप्पत्तिः ऐहिकी ययोपगृहीतस्य चित्तस्वास्थ्यं भवति, तस्मादेवपूजाद्युपादेयप्रवृत्तिः, तथा 'लोकविरुद्वत्यागः' सर्व्वजननिंदादिवर्जनं यदाह - "सबस्स चैव निंदा विसेसओ तहय गुणममिद्धाणं । उजुधम्मकरणहसणं रीढा जणपूयणिजाणं ॥ १ ॥ बहुजणविरुद्धसंगो देसादाचारलंघणं चैव । उद्यणभोओ अ तहा दाणाइ पयडमने उ ||२|| साहुचसणंमि तोसो सइ सामन्यंमि अपडियारो अ । एमाइयाई इत्थं लोगविरुद्धाई आई ||३|| महदपायस्थानमेतत्, गुरुजनस्य- मातापित्रादेः पूजा - उचितप्रतिपत्तिः 'परार्थकरणं च' परहितार्थकरणं, जीवलोकसारं पौरुपचिह्नमेतत्, सत्येतावति लौकिके सौन्दर्ये लोकोत्तरधर्माधिकारी भवति, 'सुहगुरुजोगो' विशिष्टचारित्रयुक्ताचार्य संबंधः, अन्यथा अपान्तरालसदोषसिद्धिलाभ तुल्योऽयमिति अयोग एव, तथा तद्वचनसेवना-सद्गुरुवचनसेवा, न जातुचिदयमहितमुपदिशति आभवं- आसंसारं अखंडा - पूर्णा, भवतु ममेति शेषः, एतावत्कल्याणावासौ द्रागेवापवर्गः फलति चैतद् अचिन्त्यचिन्तामणेर्भगवतः प्रणिधानेनेति, इदं च प्रणिधानं न निदानरूपं, प्रायेण निस्संगाभिलापरूपत्वात्, एतच्चाप्रमत्तसंयतादर्वाक् कर्तव्यं, अप्रमत्चादीनां मोक्षेऽप्यनमिलापात्
प्रणिधान
सूत्रं
॥३४१॥