SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ श्रीदे० चैत्यश्रीधर्म० संघा - चारविधौ ॥३२९ ॥ विदारितं मोहजालं - मिथ्यात्वादिरूपं येन स तथा श्रुतधर्मे हि सति विवेकिनां मोहजालं विलयमुपयात्येव, इत्थं श्रुतमनिबंध बखैव गुणोपदर्शनद्वारेणाप्रमादमोचरतां प्रतिपादयचाह - 'जाईजरामरणे' त्यादि, कः सचेतनो धर्म्मस्य - श्रुतधर्म्मस्य सारं - सामर्थ्यमुपलभ्य - विज्ञाय श्रुतधम्र्मोदितेऽनुष्ठाने प्रमादं - अनादरं कुर्यात् १, न कश्चिदित्यर्थः, जातिः - जन्म जरा-वयोहानिः मरणं| प्राणनाशः शोको - मानसो दुःखविशेषस्तान् प्रणाशयति- अपनयति जातिजरामरणशोकप्रणाशनस्तस्य, श्रुतधम्र्मोक्तानुष्ठानाद्धि जात्यादयः प्रणश्यत्येव, अनेनास्यानर्थप्रतिघातित्वमुक्तं, कल्यं आरोग्यं अणति - शब्दयति इति कल्याणं, पुष्कलं संपूर्ण, न च तदल्पं, किन्तु विशालं विस्तीर्णं, एवंभूतं सुखमावहति - प्रापयतीति कल्याणपुष्कलविशाल सुखावहस्तस्य, श्रुतधम्र्मोक्तानुष्ठानादुक्तलक्षणमपवर्गसुखमवाप्यत एव, अनेन चास्य विशिष्टार्थप्रापकत्वमाह, 'देवदानव नरेंद्रगणार्चितस्ये' त्येतत् सुरगणनरेंद्रमहितस्यैवानुवृचिफलसमर्थनं व्यक्तं च । अत्र संप्रदायः - प्रमाद्यन् सूरिरेकोऽत्र, प्रत्याभूद् विगतश्रुतः । तत्रोद्यच्छन् स एवाभूत्, पारदृश्वा श्रुतांबुधेः॥१॥ तथाहि एकस्मिन् भ्रातरौ गच्छे, गंगाकूलनिवासिनौ । व्रतं जगृहतुः शांती, तत्रैकोऽभूद् बहुश्रुतः ॥ २॥ सूरिर्जज्ञे क्रमेवासौ शिष्यैः सूत्रार्थमिच्छुभिः । सेव्यमानो दिनं सर्व, विश्रामं नाश्नुते क्वचित् ||३|| निशायामपि सूत्रार्थ, चिंतनपृच्छनादिभिः । नाससाद सुखान्निद्रामन्वहं व्यग्रमानसः ॥ ४ ॥ भ्राता तस्य द्वितीयस्तु, नित्यमास्ते यथासुखम् । तं च पश्यन्नसौ सूरिर्दध्यौ दुर्बुद्धिबाधितः ||५|| | अहो मे बांधवो धन्यो, योऽयमास्ते सदा सुखी । ज्ञानविज्ञानहीनत्वात् केनाप्यायास्यते नहि ॥६॥ अजाकृपाणकल्पेन, ज्ञानेनाहं त्वचाप्नुयान् । दुःखं तत्रोऽत्र केनापि, विदुपा सूदितं हृदः ||७|| मूर्खत्वं हि सखे! ममापि रुचितं तस्यापि चाष्टौ गुणा, निश्चितो १ श्रुतस्तवे अशकटापिता ॥३२९॥
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy