SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ उपक्रम: । श्रीदे. चैत्यश्रीधर्म संघाचारविधौ इह हि दुरन्तानंतचतुरंतासारविसारिसंसारापारपारावारे निमझता भव्यजन्तुना जिनप्रवचनप्रतीतचोल्लकादिदशनिदर्शनदुष्पापां कथमपि प्रशस्तसमस्तमनुजजन्मादिसामग्रीमवाप्य भवजलधिसमुत्तरणप्रवणप्रवहणसधर्मसद्धर्मविधाने प्रयत्नो विधेयः, यदवादि"भवकोटीदुष्पापामवाप्य नृभवादिसकलसामग्रीम् । भवजलधियानपात्रे धर्मे यत्नः सदा कार्यः॥१॥" तत्रापि विशेषतः परोपकारकरणे प्रवर्तितव्यं, तस्यैवान्वयव्यतिरेकाभ्यामपि पुण्यबंधनिबंधनत्वात् , उक्तं च"संक्षेपात् कथ्यते धर्मो, जनाः! किं विस्तरेण वः । परोपकारः पुण्याय, पापाय परपीडनम् ॥१॥" स चोपकारो द्वेधा-द्रव्यतो भावतश्च, तत्र द्रव्योपकारो भोजनशयनाच्छादनप्रदानादिलक्षणः, स चाल्पीयाननात्यंतिकश्च, ऐहिकार्थस्यापि साधने नैकांतेन साधीयानिति, भावोपकारस्त्वध्यापनश्रावणादिस्वरूपो गरीयान् आत्यंतिक उभयलोकसुखावहश्चेत्यतो भावोपकार एव यतितव्यं, स च परमार्थतः पारमेश्वरप्रवचनवचनोपदेश एव, तस्यैव भवशतोपचितदुःखलक्षक्षयक्षमत्वात् , आह च"नोपकारो जगत्यस्मिंस्तादृशो विद्यते कचित् । यादृशी दुःखविच्छेदाद्देहिनां धर्मदेशना ॥३॥" स चोपदेशो यद्यपि उपदेष्टव्यभेदादनेकविधः तथापि चैत्यवंदनादिविषयः संघस्याचारविधिरेव प्रथमत उपदेश्यः, तस्यैवाहर्निशमवश्यानुष्ठेयतया प्रतिदिनक्रियत्वेनानुसमयोपयोगित्वात् , तथा च महानिशीथसप्तमाध्ययनमूत्र-“से भय ! किं तं पइदिणकिरियं, पइदिणकिरियं गोयमा! जण्णं अणुसमयं अहनिसं पाणोवरमं जाव अणुट्टेयवाणि संखिजाणि आवस्मगाणि, से भयवं! कयरे ते आवस्सगे?, गोयमा! चिइवंदणादओ" इत्याद्यागमाद् विनिश्चित्य बहुविस्तरातिगंभीरपूर्वभाष्यचूर्णादिग्रंथोक्तप्रति|दिनावश्यकृत्यचैत्यवंदनाद्याचारविधिस्वरूपावगमविधिनिर्णयाममर्थान् दुष्पमादोपादत्यंत तथाविधायुर्मेधादिवलसामग्रीविकला me RIN HumiranmammMA N AL
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy