________________
श्रीदे
चेत्य० श्री- धर्म० संघाचारविधौ ॥१३॥
व्"ति,तत्रैव चोक्तं-'सक्कत्ययाइयं चैहयवंदणे ति,पत्पुनाताधर्मकथादिषु धर्मरुचिसाध्यादीनां चरितानुवादे मणितं 'पुरत्यामिमुहे संपलिअंकनिसने करयले त्यादि तदशत्यादिकारणाश्रितं, न पुनः 'भूमिनिदिउभयजाणुणा' इत्यादिविधेबांधाविधायि भवति, चरितानुवादविहितत्वात , चरितानुवादविहितानि हि नोत्सग्गभिवविधिवादस्य बाधकानि साधकानि वा भवितुमर्हति, कारणाश्रितत्वेन द्वितीयपदान्वर्वर्णित्वात् तेषाम् , अन्यथा वा यथाऽऽम्नायं सुधीभिः समाधेयं ॥ तथा वंदनं 'अरिहंतचेहआण'| मित्यादि दंडकैः प्रसिद्धैः जिनबिंबादीनां जिनमुद्रया-पूर्वोक्तशब्दार्थया विघ्नजेच्या कर्तव्यं भवति द्रौपद्यादिवत् , तथा चषष्ठांगे| "तए णं सा दोबई रायवरकन्ना जाव धूवं डहइ, वाम जाणुं अंचेइ, करयल जाव कटु एवं वयासी-मोत्यु णं जाव संपत्ताणं, | वंदा नमसई अत्र जीवामिगमोक्तं विवरणं-ततो विधिना प्रणाम कुर्वन् प्रणिपातदंडकं पठति-नमोत्थु णं अरिहंताणमित्यादि यावत्रमो जिणाणं जियभयाणं, दंडकार्यश्चैत्यवंदनाविवरणादवसेयः, 'वंदा नमसइति वंदते ताः प्रतिमाश्चैत्यवंदनविधिना प्रसिद्धन, नमस्करोति पश्चात् प्रणिधानादियोगेने"ति, परिग्गहियं सिरसावत्तं मत्थए अंजलिं कटु एवं वयासी-नमोत्पुणं अरिहंताणमित्यादि, ततोऽस्य पाठे विविधविधिदर्शनात् सर्वेषां च प्रमाणग्रंथोक्तत्वेन विनयविशेषकृतत्वेन च निषेधुमशक्यत्वात योगमुद्रयाऽपि शक्रस्तवपाठो न विरुध्यते, विचित्रत्वात् मुनिमतानां, न चैतानि परस्परमतिविरुद्धानीति वाच्यं, सर्वैरपि विनयस्य दर्शितत्वात् इत्यलं प्रसंगेन, तथा वंदनं-अरिहंतचेइआणमित्यादिदंडकपाठेन जिनर्विवादिस्तवनं जिनमुद्रया, इयं र पादाश्रिता, दंडकानामपि स्तवरूपत्वात् , योगमुद्राऽप्यत्र संगतैव, सा च हस्ताश्रिता, अत उभयोरप्यनयोवेदने प्रयोगः,तथा प्रणिधानं 'जयवीयराये त्यादि यथेष्टप्रार्थनारूपं यद्यस्य, तीवसंवेगाद्धि अत्राशुभाविनी विशुद्धयोगसंप्राप्तिः,तच मुक्ताशुक्तिमद्रया कार्यमिति शेषः
more
॥१३॥