SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ स्वोपन वृत्तिः प्रतिमा ह सेणावच्चं, कारेमाणे, पालेमाणे, महया हय २ जाव मुंजमाणे विहरति इति जंबूद्वीपप्रज्ञप्तौ-'व्याख्या-अत्र हि द्वात्रिंशल्लक्ष- पवकम. विमानप्रभुत्वमेव पठितं दृश्यते न पुनः सत्तण्हं अणियाणं सत्तण्हं अणियाहिवईणं इत्यादिवत, बत्तीसाए विमाणवाससयसाहस्सीणं ॥६ ॥ बत्तीसविमाणवाससयसहस्साहिबईणमित्यादि अन्नेसि बहूणं सोहम्मकप्पवासीणं वेमाणीयाणं देवाणय देवीणयेत्यायुक्तौ | ३ च सव्वेसिं सोहम्मकप्पवासीणमित्यादि पठितं तत्रापि बहुशब्देनाभियोगादिदेवत्वेनोत्पन्ना एवं ग्राह्या नान्ये, पाठांतरोक्तिस्वारस्यात् , सामान्यस्य विशेषपर्यवसानार्थमेवान्यमतोपन्यासात् , प्राच्यपक्षस्वरसकल्पने बीजाभावात् , तस्मात यावानिंद्रपरिकरस्तावान् सर्वोऽपि शक्रनिवासविमान एवोत्पद्यत इति प्रतिपत्तव्यं, तथा च स्वकीयविमानशब्देनैकस्यैव विमानस्य स्वस्वप्रभुत्वप्रतिबद्ध एकादश एव ग्राह्यस्तावत एवं प्रदेशस्यैव स्वविमानत्वेनोक्त: अत एव कालकनामकं भवनं चमरचंचाराजधान्येकदेशरूपमपि भवनत्वेनागमेऽभाणि यथाच-चंद्रसूर्यादीनां देवानामग्रमहिषीणां चंद्रसूर्योदिविमानैकदेश एव निजविमानतया भणितस्तथा तत्सामानिकानामपि द्रष्टव्यं, अन्यथा ज्योतिष्केंद्रसामानिकानामपि पृथक् विमानकल्पने ज्योतिष्काणां पंचमकारतानियमो भज्येत, अतएव 'ससिरविगहणक्खत्ता' इत्यादिप्रवचने शशिप्रमुखशब्दैः शशिप्रमुखविमानवासिनः सर्वेऽपि तत्तन्नामभिरेव गृहीता बोध्याः। किंच जिनजन्मादिषु सामानिकादीनां पालकविमानेनैवागमनमागमे भणितं न पुनः शेषदेवादीनामिव निजनिजविमानवाहनादिभिरित्येवमादि जंबुद्वीपवृत्तेयं । या च केषांचित्सामानिकानां महर्द्धिकत्वात् , पृथग्विमानकल्पना साप्यनल्पाज्ञानमूना, सहस्रारादिदेवलोकेषु सामानिकापेक्षया विमानानामल्पसंख्यत्वातथाहि-सहस्रारे षट्सहस्राणि विमानाना, सामानिकास्तु त्रिंशसहस्राः, आनतपाणतयोः समुदितयोः विमानानां चत्वारि शतानि, ॥ ६०॥ ww
SR No.600277
Book TitlePratima Shatak Granth
Original Sutra AuthorPratapvijay
Author
PublisherMuktikamal Jain Mohan Mala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy