________________
प्रतिमा
शतकम्. ॥२०० ॥
wwwwwwww
र्हत्प्रतिमाः ४ साधुरर्हत्प्रतिमा चेति युगपद्वयं ५ साधुर्जिनप्रतिमाश्च ६ साधवो जिनप्रतिमा च ७ साधवो जिनप्रतिमाश्च ८ इत्यष्टस्वपि भङ्गेषु लभ्यते इत्युक्तं, ' नाणावरणिज्जस्स उ दंसणमोहस्स तह खयोबसमे । जीवमजीवे अट्ट भंगेसु अ होइसव्वस्स " इति गाथया नमस्कारनिर्युक्तौ, “ तित्थयराजिणचउदस भिन्ने संविग्ग तह असंविग्गे । सारूवियदंसण परिमाओ HRTEE " इति कल्पभाष्ये, न च जिनप्रतिमादर्शनाद्यभावेऽपि केषांचित्सम्यक्त्वलाभदर्शनाद् व्यभिचार इति शङ्कनीय, चित्रव्यत्वपरिपाक योग्यतया प्रतिभव्यं सम्यक्त्वहेतूनां वैचित्र्यात्, तथात्वे कस्यचित् तीर्थकृत् कस्यचित् गणधरः कस्यचित्साधुः कस्यचिज्जिनमतिमादिकमित्येवं नैयत्यात् स्वजनभव्यत्वपरिपाकद्वारेण व्यभिचाराभावात्, अन्यथा तीर्थकृतो सम्यक्त्वहेतवो न भवेयुः तीर्थकरमन्तरेणापि गौतमादिबोधितानां बहूनां सम्यक्त्वलाभमतीतेः, अन्वयव्यतिरेकसिद्धेश्चायमर्थोऽतएव सम्यग्दृष्टिपरिगृहीताः तासां कार्ये कारणोपचारेण भावग्रामत्वमिष्यते । तदुक्तं तत्रैव - “ जा सम्मभाविआओ पडिमा इरान भावगाममओ | भावो जइ णत्थि तर्हि नणु कारणकज्जउवयारो ।” व्याख्या - (याः ) सम्यग्भाविताः सम्यग्दृष्टिपरिगृहीतास्ता भावग्राम उच्यते, नेतरामिध्यादृष्टिपरिगृहीताः, आह-सम्यग्भाविता अपि प्रतिमास्तावद् ज्ञानादिभावशून्यास्ततो यदि दर्शनज्ञानादिरूपो भावः स तत्र नास्ति, कथं भावग्रामो भवितुमर्हति ?, उच्यते - ता अपि दृष्ट्वा भव्यजीवस्यार्द्रकुमारादेवि सभ्यम्नाद्युदयमानमुपलभ्यते, ततः कारणे कार्योपचार इति कृत्वा ता अपि भावग्रामो भण्यन्ते इति । तथा षडावश्यकान्तर्गतश्राव कमतिक्रमणसूत्रे साक्षादेव चैत्याराधनमुक्तं - " जावंति चेहयाई उड्ढे अ अहे य तिरिअलोए अ । सब्वाई ताई वंदे इह संतो तत्थ संता।।" चतुश्चत्वारिंशत्तमगाथायां एतच्चूर्णिर्यथा - " एवं च उवासाए जिणाणं वंदणं काउं संपइ सम्मत्तविमुद्धिनिमित्तं विलोअग
स्वोपज्ञ वृत्तिः
श्लो. ६७
||२००॥