________________
भीआचाराङ्गवृत्तिः (शीलाङ्का.)
॥ ८२० ॥
स भिक्षुर्वर्णयन्ति वस्त्राणि चौरादिमयानो विगतवर्णानि कुर्यात्, उत्सर्गतस्तादृशानि न ग्राह्याण्येव, गृहीतानां च परिकर्म न विधेयमिति तात्पर्यार्थः, तथा विवर्णानि न शोभनवर्णानि कुर्यादित्यादि सुगममिति ॥ नवरं 'विहं'ति अटवीप्रायः पन्थाः । तथा तस्य भिक्षोः पथि यदि 'आमोषकाः' चौरा वस्त्रग्रहणप्रतिज्ञया समागच्छेयुरित्यादि पूर्वोक्तं यावदेतत्तस्य भिझोः सामग्र्यमिति । पञ्चममध्ययनं समाप्तम् ॥ २-१-५॥
॥ अथ षष्ठ पापणाध्ययने प्रथम उद्देदेशकः ॥
पञ्चमाध्ययनानन्तरं षष्ठमारभ्यते, अस्य चायमभिसम्बन्धः - इह प्रथमेऽध्ययने पिण्डविधिरुक्तः, स च वसतावागमोक्तेन विधिना भोक्तव्य इति द्वितीये वसतिविधिरभिहितः, तदन्वेषणार्थं च तृतीये ईर्यासमितिः प्रतिपादिता, पिण्डाद्यर्थं प्रवृत्तेन कथं भाषितव्यमिति चतुर्थे भाषासमितिरुक्ता, स च पटलकै विना न ग्राह्य इति तदर्थ पञ्चमे वस्त्रपणां प्रतिपादिता, तदधुना पात्रेणापि विना पिण्डो न ग्राह्य तस्यनेन सम्बन्धेन पात्रैषणाऽध्ययन मायातम् अस्य च चत्वार्यनुयोगद्वाराणि भवन्ति तत्र नामनिष्पन्ने निक्षेपे पात्रेणाऽध्ययनम् अस्य च निक्षेपोऽर्थाधिकारश्चानन्तराध्ययन एव लाघवार्थं नियुक्तिकृताऽभिहितः, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तच्चेम्
श्रत
चूलिका १ पात्रैष० ६
उद्दे शका १
॥ ८२० ॥