________________
।। ६६१ ॥
***
܀܀܀܀
गृहीत्वा गृहपतिकुलं पिण्डपातप्रतिज्ञया: प्रविशेद्वा ततो निष्क्रामेद्वा । तस्य चोपकरणमनेकधेति, तद्यथा - "दुग निग चक्क पंचग नव दस एक्कारसेव बारसहे "त्यादि । तत्र जिनकल्पिको द्विविध:- छिद्रपाणिरच्छिद्रपाणिश्च तत्राच्छिद्रपाणेः शक्त्यनुरूपाभिग्रहविशेषाद् द्विविधमुपकरणं, तद्यथा-रजोहरणं मुखखिका च, कस्यचित्वकत्राणार्थं क्षौमपटपरिग्रहात्त्रिविधम् अपरस्योद कविन्दु परितापादिरक्षणार्थमौर्णिकपट परिग्रहाच्चतुर्द्धा तथाऽसहिष्णुतरस्य द्वितीयक्षौमपटपरिग्रहात्पञ्चधेति । छिद्रपाणेस्तु जिनकम्पिकस्य सप्तविधपात्र नियोगसमन्वितस्य रजोहरणमुखवत्रिकादिग्रहणक्रमेण यथायोगं नवविधो दशविध एकादशविधो द्वादशविधश्चोपधिर्भवति, पात्रनिर्योगश्च - " " पत्तं ? पत्ताबंधी २ पायडवणं ३ च पायकेसरिया ४ । पडलाइ ५ रत्ताणं ६ च गाच्छओ ७ पायनिज्जोगो ।। १ ।। " अन्यत्रापि गच्छता सर्वमुपकरणं गृहीत्वा गन्तव्यमित्याह--स भिक्षुग्रमादेवहिर्विहारभूमिं वा स्वाध्यायभूमिं वा तथा 'विचारभूमि' विष्ठोत्सर्गभूमिं सर्वमुपकरणमादाय प्रविशेनिष्क्रामेद्वा एतद्वितीयं, एवं ग्रामान्तरेऽपि तृतीयं सूत्रम् ॥ साम्प्रतं गमनाभावे निमित्तमाह
सेभिक्खु वा २ अह पुण एवं जाणिज्जा - तिब्वदेसियं वासं वासेमाणं पेहाए तिव्वदेसियं महियं संनिचयमाणं पेहाए महवाएण वा रयं समुद्धयं पेहाए तिरिच्छपाइमा वा तसा पाणा संथडा संनिचयमाणा पेहाए से एवं नच्चा नो सव्वं भंडगमायाए गाहा१ पात्रं पत्रवधः पात्रस्थापनं च पात्र केशरिका। पटलानि रजखाणं च गोच्छुकः पात्रनिर्योगः ॥ १ ॥
॥ ६६१.