SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः शीलाङ्का) तुन्यता मावयितव्येत्येतदुत्तरसूत्रैर्दर्शयितुमाह-त्वमपि नाम स एव यं प्रेषणादिना आज्ञापयितव्यमिति मन्यसे, तथा । त्वमपि नाम स एव यं परितापयितव्यमिति मन्यसे, एवं यं परिगृहीतव्यमिति मन्यसे, यमपद्रावयितव्यमिति मन्यसे सम्य. ५ असौ त्वमेव, यथा भवतोऽनिष्टापादनेन दुःखमुत्पद्यते एवमस्यापीत्यर्थः, यदिवा यं कायं हन्तव्यादितयाऽध्यवस्यसि उद्देशका ५ तत्रानेकशो भवतोऽपि भावाचमेवासी, एवं मृषावादादावल्यायोज्यम् । यदि नाम हन्तव्यघातकयोरुक्तक्रमेणैक्यं ततः किमित्याह-'अञ्जु रिति ऋजुः प्रगुणः साधुरितियावत् , चशब्दोऽवधारणे, एतस्य-हन्तव्यघातकैकत्वस्य प्रतिबोधः प्रतिबुद्धमेतत्प्रतिबुद्धं तेन जीवितु शीलमस्येत्येतत्प्रतिबुद्धजीवी साधुरेवैतत्परिज्ञानेन जीवति नापर इत्युक्तं भवति । यदि नामैवं ततः किमित्याह-'तस्माद् हन्यमानस्यात्मन इव महद्दुःखमुत्पद्यते तस्मादात्मौपम्यादन्येषां जन्तूनां न हन्ता स्यात् , नाप्यपरैर्घातयेत् न च नतोऽनुमन्येत, किं च-संवेदनम्-अनुभवनं अनु-पश्चात्संवेदनं केन ?-आत्मना, यत्परेषां मोहोदयाद्धननादिना दुःखोत्पादनं विधीयते तत्पश्चादात्मना संवेद्यमित्याकलय्य यत्किमपि हन्तव्यमिति चिकीर्षितं तन्नाभिप्रार्थयेत्-नाभिलषेत् । ननु चात्मनाऽनुसंवेदनमित्युक्तं, संवेदनं च सातासातरूपं, तच्च यथा नैयायिकवैशेषिकाणामात्मनो भिन्नेन गुणभूनेनैकार्थसमवायिना ज्ञानेन भवति तथा भवतामप्याहोस्विदभिन्नेनात्मन इत्यस्य प्रतिवचनमाहजे आया से विन्नाया जे विनाया से आया, जेण वियाणइ से आया, तं पडुच्च पडिसंखाए, s ४४६॥ एस आयावाई समियाए परियाए वियाहिए तिबेमि ॥ सू० १६५ ॥ इति पञ्चमउद्देशकः ५.५॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy