________________
श्रीआचा रावृत्तिः (शीलाङ्का.)
सम्य.५ उद्देशकः ५.
॥ ४३८ ॥
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
वितिगिच्छसमावन्नेणं अप्पाणणं नो लहइ समाहिं, सिया वेगे अणगच्छति असिता
वेगे अनुगच्छंति, अणगच्छमाणेहिं अणणुगच्छमाणे कहं न निग्विज्जे? ॥ सू० १६१॥ 'विचिकित्सा' चित्तविप्लुतिः यथा इदमप्यस्तीत्येवमाकारा युक्त्या समुपपन्नेऽप्यर्थे मतिविभ्रमो मोहोदयाद्भवति, तथाहि--अस्य महतस्तपाक्लेशस्य सिकताकणकवलनिःस्वादस्य स्यात् सफलता न वेति ? कृपीबलादिक्रियाया उभयथाऽप्युपलब्धेरिति, इयं च मतिर्मिथ्यात्वांशानुवेधाद्भवति ज्ञयगहनत्वाच्च, तथाहि--अर्थविविधः--सुखाधिगमो दुरधिगमोऽनधिगमश्च श्रोतारं प्रति भिद्यते, तत्र सुखाधिगमो यथा चक्षुष्मतश्चित्रकर्णनिपुणस्य रूपसिद्धिः दुरधिगमस्त्वनिपुणस्य अनधिगमस्त्वन्धस्य, तत्रानधिगमरूपोऽवस्त्वेव, सुखाधिगमस्तु विचिकित्साया विषय एव न भवति, देशकालस्वभावविप्रकृष्टस्तु विचिकित्सागोचरीभवति, तस्मिन् धर्माधर्माकाशादौ या विचिकित्सेति, यदिवा 'विइगिच्छत्ति विद्वज्जुगुप्सा, विद्वांसः--साधवो विदितमंसारस्वभावाः परित्यक्तसमस्तसङ्गास्तेषां जुगुप्सा-निन्दा अस्नानात प्रस्वेदजलक्लिन्नमलत्वाद्दुर्गन्धिवपुषस्तान्निन्दति-को दोषः स्याद्यदि प्रासुकेन वारिणाऽङ्गक्षालनं करिन्नित्यादि जुगुप्सा तां विचिकित्सा विद्वज्जुगुप्सां वा सम्यगापन्न:--प्राप्तः आत्मा यस्य स तथा तेन विचिकित्सासमापन्नेनात्मना नोपल मते 'समाधि' चित्तस्वास्थ्यं ज्ञानदर्शनचारित्रात्मकों वा समाधिस्तं न लभते, विचिकित्साकलुषितान्तःकरणो हि कथयतोऽप्याचार्यस्य सम्यक्त्वाख्यां बोधि नावाप्नोति । यश्चावाप्नोति स गृहस्थो वा स्याद्यतिति दर्शयितुमाह-'सिता' पुत्रकलत्रादिभिरवबद्धाः, वाशब्द उत्तरापेक्षया पक्षान्तरमाह, 'एके' च लघुकर्माणः सम्यक्त्वं प्रतिपादयन्तमाचार्य
܀܀܀܀܀܀܀܀܀܀܀܀܀ ܀܀܀܀܀܀܀
४३८॥