SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ ॥२१॥ पूर्वसंस्तवपिण्डः ११ पश्चात्संस्तवपिण्डः १२ विद्यापिण्डः १३ मन्त्रपिण्डः १४ चूर्णयोगपिण्डः १५ मूलकनेपिण्डश्चेति १६ । तथा दशैषणादोषाः, ते चामी-शङ्कित १ प्रक्षित २ निक्षिप्त ३ पिहित ४ संहृत ५ दायको ६ मिश्रा ७ ऽपरिणत ८ लिप्सो ज्झित १० दोषाः । एषां चोद्गमदोषा दातृकृता एव भवन्ति, उत्पादनादोषास्तु साधुजनिताः, एषणादोषाश्चोभयोत्पादिता इति । तथा परममयज्ञो ग्रीष्ममध्याह्नतीव्रतरतरणिकरनिकरावलीढगलस्वेदबिन्दुकः क्लिनवपुष्कः साधुः केनचिद् धिगजातिदेश्येनाभिहित:-किमिति भवतां सर्वजनाचीर्ण स्नानं न मम्मतमिति १, स आह-प्रायः सर्वेषामेव यतीनां कामाङ्गत्वाज्जलस्नानं प्रतिषिद्धं, तथा चार्षम् -'स्नानं मददप्र्पकरं, कामा प्रथम स्मतम । तस्मात्कामं परित्यज्य, नैव स्नान्ति दमे रताः॥१॥" इत्यादि, तदेवमुभयज्ञस्तद्विषये प्रश्ने उत्तरदानकुशलो भवति, तथा 'भावन्ने भावः-चित्ताभिप्रायो दातुः श्रोतुर्वा तं जानातीति भावज्ञः, किं च-'परिग्गहं अममायमाणे' परिगृह्यत इति परिग्रहः-संयमातिरिक्तमुपकरणादिः तमममीकुर्वन्-अस्वीकुर्वन् मनसाऽप्यनाददान इतियावत , स एवंविधो भिक्षुः कालज्ञो बलज्ञो मात्रज्ञः क्षेत्रज्ञः खेदज्ञो क्षणज्ञः विनयज्ञः समयज्ञो भावज्ञः परिग्रहमममीकुर्वाणश्च किंभूतो भवतीत्याह-'कालाणुवाई' यद्यस्मिन् काले कर्तव्यं तत्तस्मिन्नेवानुष्ठातु शीलमस्येति कालानुष्ठायी-कालानतिपातकर्त्तव्योधतो, ननु चास्यांर्थस्य 'से मिक्खू कालन्ने' इत्यनेनैव गतार्थत्वात् किमर्थं पुनरभिधीयते इति : नैष दोषः, तत्र हि ज्ञपरिव केवलाऽमिहिता, कर्तव्यकालं जानाति, इह पुनरासेवनापरिज्ञा कलव्यकाले कार्य विधत्त इति । किंच-'अपडिण्णे नास्य प्रतिज्ञा विद्यते इत्यप्रतिज्ञः, प्रतिज्ञा च कषायोदयादापिरस्ति, तद्यथा-क्रोधोदयात् स्कन्दा ܀܀܀܀܀܀܀܀܀܀܀
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy