________________
0१७६ ॥
यथाभृतार्थनिरपेक्षमभिधानमात्रं नाम, सद्भावासद्भावरूपा प्रतिकृतिः स्थापना, कृतभीमभ्र कुट्युत्कटललाट(पट)घटितत्रिशूलरकास्यनयनसन्दष्टाधरस्पन्दमानस्वेदसलिलचित्रपुस्ताद्यक्षवराटकादिगतेति, द्रव्यकपाया ज्ञशरीरभव्यशरीराभ्यां व्यतिरिक्ताः कर्मद्रव्यकषाया नोकर्मद्रन्यकपायाश्चेति, तत्रादित्सितात्तानुदीर्णोदीर्णाः पुद्गला द्रव्यप्राधान्यात कर्मद्रव्यकषायाः, नोकर्मद्रव्यकषायास्तु विभीतकादयः, उत्पत्तिकषायाः शरीरोपधिक्षेत्रवास्तुस्थाण्वादयो यदाश्रित्य तेषामुत्पत्तिः, तथा चोक्तम्-'कि एत्तो कट्ठयरं जं मूढो थाणअम्मि आवडिओ। थाणस्स तस्स रूसह न अप्पणो दुप्पओगस्स ॥१॥" प्रत्ययकषायाः कषायाणां ये प्रत्ययाः-यानि बन्धकारणानि, ते चेह मनोज्ञेतरभेदाः शब्दादयः, अत एवोत्पत्तिप्रत्यययोः कार्यकारणगतो भेदः, आदेशकषायाः कृत्रिमकृतभ्र कुटिभङ्गादयः, रसतो कषायाः, रसकपायाः, रसकपायः कटुतिक्तकषायपञ्चकान्तर्गतः, भावकषायाः शरीरोपधिक्षेत्रवास्तुस्वजनप्रेष्यार्चादिनिमित्ताविभूताः शब्दादिकामगुणकारण कार्यभूतकषाय कमोदयात्मपरिणामविशेषाः क्रोधमानमायालोभाः, ते चैकैकशोऽनन्तानुवन्ध्य प्रत्याख्यानप्रत्याख्यानावरणसज्वलनभेदेन भिद्यमानाः षोडशविधा भवन्ति, तेषां च स्वरूपानुबन्धफलानि गाथाभिरभिधीयन्ते, ताश्चेमाः-"जलरेणुपुढविपव्वयराईसरिसो चउव्विहो कोहो । तिणिसलयाकट्ठडियसेलत्थंभोवमो
१ किंमेतस्मात्कष्टकरं यन्मूढः स्थाणावापतितः । स्थाणवे तस्मै रुष्यति नात्मनो दुष्प्रयोगाय ॥१॥२ जल रेणुपृथ्वीपर्वतराजीसहशश्चतुर्विधः क्रोधः । तिनिशलताकाष्ठास्थिशैलस्तम्भोपमो मानः ॥१॥ मायाऽवलेखिकागोमूत्रिकामेषशृङ्गघनवंशीमूलसमा । लोमो हरिद्राकर्दमखञ्जनकृमिरागसमानः॥२॥ पक्ष चतुर्मासवत्सरयावज्जीवानुगामिना क्रमशः। देवनरतियनारक गतिसाधनहे तवो भणिताः ।।३।।
॥१७४।