SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ ॥२१३।। विष्वग् जैनरथोत्सवे पुरमिदं व्यालोकितुं कौतुका-लोका नेत्रसहस्रनिमितिकृते चक्रुर्विधेः प्रार्थनाम् ।।१।। अपि चसङ्गर्जद्गजराजसंस्थितमहासामन्तहस्तोल्लुलच्चञ्चच्चामरवीजितः प्रतिपदं राजन्यराजिश्रितः । संपन्नार्थिमनोरथो जिनरथो घस्राष्टकं सर्वतो, लीलासञ्चरणमहोत्सवमयं विश्वत्रयं निर्ममे ॥ २ ॥ दिणाइं, रहजत्तं जणियजणचमक्कारं । कूणइ जहा कुमरनिवो, तहेव आसो अमासेवि ।। ९ ।। जंपइ नियमंडलिए, एवं तुब्भेवि कुणह जिणधम्मं । तेविय नियनयरेसं, कुमरविहारे करावेंति ।। १० ।। वियरंति विच्छरेणं, जिणरहजत्तं कुणंति मुणित्ति । तत्तो समग्गमेयं, जिणधम्ममयं जय जाय ॥ ११ ॥ इत्थं निस्सीमयात्रांत्रयततसुकृतोल्लासिपीयूषपूरै-रुज्जीवं जीवलोकं विदधदधिपतिः भूपतीनां समन्तात् । पापव्यापप्रकारैः सकलमकलितस्त्रासयन् दुविलासं, कालव्यालस्य लीलां कुमरनरपती राज्यलक्ष्म्या भुनक्ति ।। १ ।। अथान्यदा श्रीवीरचरित्रे वाच्यमाने श्रीगरुमुखेन देवाधिदेवप्रतिमासंबन्धं श्रुत्वा श्रीअभयामात्यपृष्टश्रीवीरस्वमुखोक्तं श्रीकुमारपालभूपेनाणहिल्लपत्तने वीतभयादानीय पूजयिष्यते महोत्सवपूरस्सरम्, इत्यादिकं स्वचरित्रं निशम्य च श्रीचोंलुक्यो हृदीत्यचिन्तयत् ।। अहमेवेह धन्यानामस्मि धन्यतमः पुमान् । अगण्यपुण्यलक्ष्मीणामहमेवैकमास्पदम् ॥१॥ भविष्यतोऽपि मे यस्य, वृत्तमित्यभयारतः । सुरासुरनराध्यक्ष, श्रीवीरः स्वयमूचिबान् ।। २ ।। ततस्तत्प्रतिमाप्राप्तिवाक्यैः । 1॥२१३। * श्रीगरुभिर्वद्धितोत्साहः स्वसामन्तान वीतभयपत्तनं प्रेष्य तां प्रतिमा पत्तनान्तिकमानयन्नृपः ॥ ततो गुरुं पुरस्कृत्य, प्रमोदमिव देहिनम् । तत्संमुखं ययौ भूपः, सर्वसङ्गसमन्वितः ॥३॥ प्रीतस्तद्वीक्षणात्साक्षात्, श्रीवीरप्रेक्षणादिव ।
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy