________________
चन्द्रप्रभस्वामि चरित्रम्
॥३६३॥
तथा निषण्णः पर्यङ्कासने स्थित्वा च बादरे । काययोगे बादरौ वाकक्चित्तयोगौ रुरोध च ॥ ११ ॥ सूक्ष्मेण काययोगेन काययोगं च बादरम् । रुद्ध्वा रुरोध सूक्ष्मौ च, योगौ वाक्चित्तलक्षणौ ॥ १२ ॥ इति सूक्ष्मक्रियं नाम, शुक्लध्यानं तृतीयकम् । अमृ सूक्ष्मतनूयोगं, क्रमात् प्रभुरसाधयत् ॥ १३ ॥ ततश्च ध्यानमुच्छ्न्नक्रियं नाम तुरीयकम् । पञ्चह्नस्वाक्षरोच्चारमितकालमशिश्रियत् ॥ १४ ॥ सर्वदुःखपरित्यक्तः, केवलज्ञानदर्शनी । क्षीणकर्मा निष्ठितार्थोऽनन्तवीर्यसुखद्धिकः ॥ १५ ॥ बन्धाभावादूर्ध्वगतिरेरण्डफलबीजवत् । प्रभुः स्वभावादृजुना, पथा लोकाग्रमासदत् ॥ १६ ॥ प्रपन्नानशनास्तेऽपि, साधवो योगरोधिनः । सर्वेऽप्यासादयामासुः, स्वामिवत् परमं पदम् १७ ॥ स्वामिनिर्वाणकल्याणान्निर्वाणो दुःखपावकः । अदृष्टसुखलेशानां, नारकाणामपि क्षणम् ॥ १८ ॥ शक्रञ्चकार रुदितं, महापूत्कारपूर्वकम् । अनुसङ्क्रन्दनं चक्र, क्रन्दनं त्रिदशैरपि ॥ १६ ॥ ततः सङ्क्रन्दनादेशानन्दनोद्यानतः क्षणात् । गोशीर्षचन्दनैधांसि, समानिन्युर्दिवौकसः ॥ २० ॥ इन्द्रादेशादथैन्द्रथा ते, स्वामिदेहस्य हेतवे । वृत्तामारचयामासुश्चितां गोशीर्षचन्दनैः ॥ २१ ॥ अन्येषामनगाराणां कृते च त्रिदिवौकसः । चतुरस्त्रां चितां चक्र रपरस्यां पुनर्दिशि ॥ २२ ॥ इन्द्रः क्षीरोदपयसा, स्नपयित्वा प्रभोर्वपुः । विलिप्य चन्दनरसैर्दिव्यवस्त्रैश्वासयत् ॥ २३ ॥ अन्ये तु देवा अन्येषां, मुनीनां विदधुस्तथा । इन्द्रो रत्नशिविकायां, चिक्षेप भगवद्वपुः ॥ २४ ॥
द्वितीय: परिच्छेदः
स्वामिनि
वणिम् ।
॥३६३॥