________________
द्वितीयः
चन्द्रप्रमस्वामि चरित्रम्
परिच्छेद:
॥३६१॥
N
गुणशिक्षाव्रतानि सप्ततत्त्वानि च।
स्वयं गन्तुं प्रवृत्तेषु, जीवाजीवेषु सर्वतः । सहकारी भवेद्धमः, पानीयमिव यादसाम् ॥ ३५॥ जीवानां पुद्गलानां च, प्रपन्नानां स्वयं स्थितिम् । अधर्मः सहकार्यषु, यथा छायाऽध्वयायिनाम् ।। ३६ ॥ सर्वगं स्वप्रतिष्ठं स्यादाकाशमवकाशदम् । लोकालोकौ स्थितं व्याप्य, तदनन्तप्रदेशभाक ॥ ३७॥ लोकाकाशप्रदेशस्था, मिनाः कालांशकास्तु ये । भावानां परिवर्ताय, मुख्यः कालः स उच्यते ॥ ३६॥ ज्योतिःशास्त्रे यस्य मानमुच्यते समयादिकम् । स व्यावहारिकः कालः, कालवेदिभिरामतः ॥ ३६॥ नवजीर्णादिरूपेण, यदमी भवनोदरे । पदार्थाः परिवर्तन्ते, तत्कालस्यैव चेष्टितम् ॥ ४०॥ वर्तमाना अतीतत्वं, भाविनो वर्तमानताम् । पदार्थाः प्रतिपद्यन्ते, कालक्रीडाविडम्बिताः ॥४१॥ [ अजीवतत्त्वम् ]
मनोवचनकायानां, यत्स्यात् कर्म स आस्रवः । शुभः शुभस्य हेतुः स्यादशुभस्त्वशुभस्य सः॥४२॥ [ आस्रवः ] सर्वेषामात्रवाणां यो, रोधहेतुः स संवरः । कर्मणां भवहेतूनां, जरणादिह निर्जरा ॥ ४३ ॥ [ संवरनिर्जरे ]
सकषायतया जीवा, कर्मयोग्यास्तु पुद्गलान् । यदादत्ते स बन्धः स्याज्जीवाः स्वातन्त्र्यकारणम् ॥ ४४ ॥ प्रकृति-स्थित्यनुभाव-प्रदेशा विधयोऽस्य तु । प्रकृतिस्तु स्वभावः स्याज्ज्ञानावृत्यादिरष्टधा ॥ ४५ ॥ निकर्षोत्कर्षतः कालनियमः कर्मणां स्थितिः । अनुभावो विपाकः स्यात् , प्रदेशोऽशप्रकल्पनम् ॥ ४६॥ मिथ्यादृष्टिरविरतिप्रमादौ च ऋधादयः। योगेन सह पञ्चैते, विज्ञेया बन्धहेतवः ॥४७॥ [वन्धतत्वम् ]
अभावे बन्धहेतूनां, घातिकर्मक्षयोद्भवे । केवले सति मोक्षः स्याच्छेषाणां कर्मणां क्षये ॥४८॥
॥३६१॥