________________
द्वितीयः परिच्छेद
चन्द्रप्रभस्वामि चरित्रम्
॥३८३॥
परिग्रहेप्रमाणे धर्ममति कथा।
धृत्वा धृत्वा स तत्रस्थान , बहून् सन् घटेऽक्षिपत् । बबन्ध च घटद्वार, वस्त्रखण्डेन निर्भरम् ॥४१॥ आगच्छत्तणगेहं तत्सरिदुत्तारके कचित् । कुमुदतीपुरीप्रान्ते, लग्न सोऽथोत्ततार च ॥ ४२ ॥ सरिदुत्तारके तस्मिन् , कापि पानीयहारिणी । एत्य द्विघटकं भृत्वा, व्यावृत्ता कोटराध्वना ॥ ४३ ॥ चापल्यात्तेन च ग्रामदारकेण जलेन सः। बहिः प्रक्षान्य विहितश्लथाईमुखबन्धनः।। ४४ ॥ स्वयं कोटरोपरिस्थेनालक्षितोऽतिभारवान् । पानीयहारिणीमून, उत्सार्यो घटं शनैः॥ ४५ ॥ मुक्तः सोऽहिघटस्तस्याः, शिरसि सा त्वजानती। कष्टादवाप्य पन्थानमृजु याति पुरीं प्रति ॥ ४६ ॥ स ग्रामदारकोप्याशु, याति तामनुदूरतः । दध्यौ च दक्षयते सपैयस्तस्य जीवकोऽस्म्यहम् ॥ ४७ ॥ पानीयहारिणी यान्ती, सस्मार यन्मयाद्य हि । द्विघटकानि देयानि, धनाढयश्रेष्ठिनो गृहे ॥४८॥ ततस्तत्र क्षिपाम्यम्भो, ध्यात्वेति तद्गृहं ययौ । दत्तद्वारे च तत्रास्थात , कुर्वती शब्दमुच्चकैः ॥ ४६ ॥
इतश्च ये धनाढ्य न, नरा दिनात्ययक्षणे । मुक्ता आसन् गतोऽर्कोऽस्तमिति ते तालिका ददुः॥ ५० ॥ नातः परं हि मे मृत्युमृत्योः पूर्णोऽवधियतः। इति सा श्रेष्ठिभार्याऽभूत् , स्वचित्ते गतमृत्युभीः ॥ ५१॥ पानीयहारिणी साथ, शब्दमुच्चैमुहुर्व्यधात् । कोपादिव श्रेष्ठिभार्योर्ध्वघटोत्तारणे ययौ ॥ ५२ ॥ द्वारमुद्घाट्य क्रोशन्ती, घटकण्ठे न्यधात् करम् । गलनकमिति बन्धवस्त्रं तदुदसारयत् ॥ ५३॥ अधः किश्चिद्गते हस्ते, सास्तदङ्गुलीः पृथक् । बुभुक्षान्धा इवात्यथ, ददंशुः परिवर्तनात् ॥ ५४॥
| ॥३३॥