SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि चरित्रम् ॥ ३८० ॥ ॥ अथ परिग्रहप्रमाणे धर्ममतिकथा " धनं धान्यं स्वर्णरूप्यकुप्यानि क्षेत्र वास्तुनी । द्विपाच्चतुष्पाच्चेति स्युर्नव बाह्याः परिग्रहाः ॥ १ ॥ रागद्वेषौ कषायाः शुग्घासो रत्यरती भयम् । जुगुप्सा वेद- मिथ्यात्वे, आन्तराः स्युचतुर्दश ॥ २ ॥ ब. ह्यात्परिग्रहात् प्रायः प्रकुप्यन्त्यान्तरा अपि । प्रावृषो वृश्चिक-सर्पविषजोपद्रवा इव ॥ ३ ॥ प्राप्तप्रतिष्ठानपि च, वैराग्यादिमहाद्रुमान् । उन्मूलयति निमूलं, परिग्रहमहाबलः ॥ ४ ॥ परिग्रहनिषण्णोऽपि, योऽपवर्ग विमार्गति । स हि लोहोडुपेनेवाम्भोधिं तरितुमिच्छति ॥ ५ ॥ बाह्याः परिग्रहाः पु ंसां, धर्मस्य ध्वंस हेतवः । तज्जन्मानोऽपि जायन्ते, समिधामिव वह्नयः ॥ ६ ॥ बाह्यानपि हि यः सङ्गान्न नियन्त्रयितु' क्षमः । जयेत् क्लीवः कथं सोऽन्तःपरिग्रहचमूम मूम् १ ॥ ७ ॥ यदीच्छसि सुखं धर्मं, मुक्तिसाम्राज्यमेव वा । तदा परपरीहारादेकामाशां वशीकुरु ॥ ८ ॥ अती पण्डितः प्राज्ञः, पापभीरुस्तपोधनः । स एव येन हित्वाशां, नैराश्यमुररीकृतम् ॥ ६ ॥ ते धन्याः पुण्यभाजस्ते, तैस्तीर्णः क्लेशसागरः । जगत्सम्मोहजननी, यैराशाशीविषी जिता ॥ १० ॥ सुखं सन्तोषपीयूषजुषां स्ववशिनां हि यत् । तत्पराधीनवृत्तीनामसन्तोषवत कुतः १ ॥ ११ ॥ कृते परिग्रहे माने, सर्वव्रतकृतिर्भवेत् । सुखास्वादश्च तस्य स्यात् सम्यग्धर्ममतेरिव ॥ १२ ॥ द्वितीयः परिच्छेदः परिग्रहप्रमाणे धर्म+ मतिकथा । ॥३८०॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy