SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि चरित्रम् द्वितीयः परिच्छेदा ॥३७६॥ चतुर्थब्रते मदनमंजरोकथा। इतस्ततश्च तेनापि, वीक्षितो राजपूरुषैः । स नादर्शि ततो द्रङ्गरवोऽवाद्यत भृभुजा ॥४१॥ केनाप्यकथ्यमानेऽस्मिन् , द्वितीयनिशि योग्यथ । गत्वा गृहामि तमिति, स्वर्णपूरुष गात् ॥ ४२॥ यावत्पश्यति तत्स्थानं, नावद्ददर्श नात्र तम् । हा ! हतोस्मीति चाक्रन्द्य स योगी द्राग् मुमूछे च ॥ ४३ ।। मूर्छान्तेऽथ स दध्यौ च, नीतः पौरेण केनचित् । स मे सुवर्णपुरुषस्तद्राज्ञा लप्स्यते ह्यसौ ॥ ४४ ॥ निजशक्त्या कुमारं तं, कृत्वाऽस्मै दर्शयाम्यहम् । यथा तद्दर्शनतुष्टः, सोऽर्पयेत् स्वर्णपूरुषम् ॥ ४५ ॥ मत्वेति योगिना स्पृष्टो, वाद्यमानः स डिण्डिमः । गत्वा च भूभुजं योगी, प्रोवाचेति गिरा मृदु ।। ४६ ॥ ददासि चेद्वचः स्वं त्वं, मम शपथपूर्वकम् । मत्कार्य कुरुषे चेत्तत् , कुमारं दर्शयाम्यहम् ॥ ४७ ॥ राजाह निश्चयाद्वाक् ते, योगिन् ! कार्या मया खलु । प्राणप्रियं कुमार मे, दर्शय कापि सत्वरम् ॥ ४ ॥ योगी प्राह मया राजन् !, साधितः स्वर्णपूरुषः । मम स्थानात् स केनापि, गृहीतो जीवितव्यवत् ।। ४६ ॥ संशोध्याय तं मे त्वं, पुरेऽस्मिस्तस्कराकुले । तेनेत्युक्ते नृपः शीघ्र, शोधयामास तं पुरे ॥ ५० ॥ परं न प्राप्तः पुरुषस्ततश्चाकृष्टिकृत्पुमान् । राज्ञाऽऽदिष्टः स्वर्णनरमाकष्टुं मण्डलं व्यधात् ।। ५१ ॥ यथाविधि स आटोपात्तन्मन्त्रानुच्चरन्मुहुः । होतव्यं वस्तु चिक्षेप, वह्निकुण्डे स्थिरात्मकः ॥ ५२ ॥ ततः स स्वर्णपुरुषो, निःस्वगेहाच्चलत् किल। आक्रोशनिःस्वपुत्रीभिः, पाणिपादे धृतो दृढम् ॥ ५३ ॥ मन्त्रेणाथ समं ताभिः, स आकृष्याशु मण्डले । सनिर्घातं पुरः क्षिप्तः, पश्यतो भूभृतस्ततः ॥ ५४ ।। ॥३७६॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy