SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमस्वामि चरित्रम् द्वितीयः परिच्छेदः ॥३७२॥ अदत्तादाने दानप्रियकथा. दृष्ट्वा दानप्रियं लोकः, प्रोचे कथमयं भुवि । प्रविष्टः १ कथमेतां च शशाकोद्धत मेककः ॥ ५५॥ न शक्या सेयमुद्धत्तुं, निःस्पृहेण विना खलु । यदनेनोद्धृता तत्स्यादेषोऽतिनिःस्पृहः पुमान् ॥ ५६ ॥ ततो यक्षः प्रभोमूर्तिमुद्धतु स्वर्णनिर्मितम् । दानप्रियप्रतिबिम्ब, विन्यस्याधश्चकर्ष तम् ॥ ५७ ॥ ततो दानप्रियं लोकोऽवददाशिषमुच्चकैः । वर्द्धयत्यक्षतैः पूर्णैर्जिनोद्धारात्तपुण्यकम् ॥ ५८ ।। उद्ययो च ततश्चन्द्रः, स्पृष्टस्तद्रश्मिभिः प्रभुः। चन्द्रकान्तमयत्वेनाक्षरनिझरवत्पयः॥ ५४॥ ततश्च पयसा तेन, सिक्तो राज्ञा निजः सुतः। बभूव च पटुः सोऽथाऽन्योऽप्याशु रोग्यभूदरुक् ॥६०॥ ततो यक्षः क्षणात्तत्र, रत्नप्रासादमादधौ । आराध्योऽयं सदा भूपमित्यादिश्य तिरोदधे ।। ६१॥ पुष्यन्मनोरथो राजा, लोकश्च स्वामिनं प्रति । आसीनिविडभक्तित्वात्पूजाराधनतत्परः ॥ ६२ ॥ समानीतोऽमुना स्वामी, भुवो मध्यादगाधतः । निःस्पृहाणां च धुर्योऽयं, तत्कुर्वे मन्त्रिणं ह्यमुम् ॥६३॥ इत्यालोच्य नृपः सम्यक् , चक्र दानप्रियं मुदा । सर्वमुद्राव्यापारेषु, निसृष्टं मुख्यमन्त्रिणम् ॥ ६४॥ स निःस्पृहव्यापरणान्नाशुभैः समबन्धयत् । किन्तु नीत्या प्रजा रक्षन् , यशोधर्ममुपायत् ॥६५॥ इत्थं प्रभुत्वमासाद्य, परद्रव्यविवर्जनात् । जिनदीक्षामवाप्यान्ते, स्वर्ग दानप्रियो ययौ ॥ ६६ ॥ तस्मात्परधनवर्जननियमनयन्त्रे निधाय चेतोद्रुम् । शुभभावटङ्कघटनात्कुरु सुखपात्रं त्वमात्मानम् ।। ६७ ॥ ॥ इत्यदत्तादाने दानप्रियकथा ॥ ॥३७२॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy