SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥१७॥ चैताः खेदिताः सुचिरं त्वया । धन्योऽवक् श्रूयतां देव ! सर्वसाधारणं ह्यदः ॥ २०३ ॥ बन्धूनां स्नेहबद्धानां विना नारीं न हि च्युतिः । तालकस्य द्विधाभावं यत्कुर्यात्कुञ्चिका क्षणात् ॥ २०४ ॥ नारीणां वचनैर्देव ! बान्धवाः स्युः पृथक् पृथक् । इत्याशङ्काजुषा भ्रातृजायास्तत्खेदिता मया ।। २०५ ।। इत्यादिप्रीतिसंलापैः सधन्योऽप्रीणयन्नृपम् । विसृज्याथ सभां राजा ययावन्तः पुरं मुदा ॥ २०६ ॥ धन्योऽपि गृहमागत्य नत्वा तातादिकान्मुदा । अपृच्छद् गृहवृत्तान्तं शीघ्रं विरचिताञ्जलिः ॥ २०७ ॥ श्रेष्ठी प्राह तदा वत्स ! निर्गते त्वयि सद्मतः । जामातृस्नेहतो राज्ञा किञ्चिदाग: प्रकल्प्य नः ॥ २०८ ॥ श्रेणिकेन प्रकोपेण सर्वस्वं गृहेऽखिलम् । येषु देशेषु यद्द्रव्यं विनष्टं तत्र तत्र तत् ॥ २०९ ॥ युग्मम् ॥ दारिद्ये च समायाते मुद्रां दत्त्वा गृहे वयम् । क्रमादत्रऽऽगता वत्स ! ततो वेत्सि स्वयं पुनः ॥ २९० ॥ त्रयाणामपि बन्धूनां ग्रामपञ्चशतीं ददौ। गृहसारं तथा सर्वं जनकाय प्रमोदतः ।। २११ ।। पत्नीद्वययुतो धन्यः पुरं राजगृहं ययौ । महेन महता राज्ञा श्रेणिकेन प्रवेशितः ।। २१२ ॥ चतस्रः कन्यकास्तत्र महेभ्यैश्च प्रढौकिताः । शुभे लग्नेऽथ धन्येन परिणीताः सुखार्थिना ।। २१३ ।। प्रियाष्टकं तदा जज्ञे धन्यस्य प्राच्यपुण्यतः । सुखं ताभिः समं भेजे दोगुन्दक इवामरः ।। २१४ ॥ धन्यस्य धनदस्यापि नान्तरं बुबुधे बुधैः । ऐश्वर्यस्य धनस्यापि सङ्ख्या नास्ति द्वयोर्यतः ॥ २१५ ॥ इतो धन्याग्रजास्तेऽपि धनाढ्या ग्रामऋद्धिभिः । श्रीदर्पात्तेषु ग्रामेषु ****** 'श्री धन्यकथानकम् । ॥१७॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy