SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः कामदेवनृपति कथा। पदाम्भोजसेवाहेवाकिनोऽभवन् ॥ ९॥ एवं षोडशभिर्भूपसहस्रः सेवितक्रमः । वासुदेव इव श्रीमान् कामदेवो व्यराजत ॥ १० ॥ सौभाग्यमञ्जरीकुक्षिसरस्यां राजहंसवत् । राजहंसकुमारोऽभूद् गुणानामेककास्पदम् ॥ ११ ॥ अन्यदा देहकार्याणि कृत्वालङ्कृतभूषितः । भेजे भद्रासनं भूप: सर्वऋद्धिसमन्वितः॥१२॥ इतश्च-राज-युवराज-महाराज-राजमन्त्रि-श्रेष्ठि-सार्थवाह-सेनापतिसहस्रसम्पूर्णायां सप्रभायां तस्यां सभायां जायमानेऽभने नाट्यादिरङ्गे, प्रवृत्तासु पौराणिकानां पूर्वपुरुषसङ्कथासु, निषाद्यमाने विपश्चितामप्रमादे शास्त्रसंवादे, विधीयमानेषु 'कारणिकै राज्यसारेषु व्यवहारेषु, सत्याप्यमानासु नियोगिभिलेखकादिचिन्तासु समानीतस्तत्र बालहारैरुदारसारशृङ्गारः श्रीराजहंसः कुमारः । तं च पञ्चवार्षिकं मरालबालमिव सकलभूपालोत्सङ्गकमलेषु सञ्चरन्तं निरीक्ष्य महामोहोन्मुह्यमाने मानसे चिन्तितवान्महीपतिः श्रीकामदेव:-अहो । कोऽयम् ? कस्य सुतः ? को वेत्ति ? कुतः समेत: ? क्व यास्यति ? ततः कोऽनेन सम्बन्धः ? केवलं वृथैवासौ सर्वस्नेहसम्बन्धः-एक उत्पद्यते जन्तुरेक एव विपद्यते । कर्माण्यनुभवत्येकः प्रचितानि भवान्तरे ॥ १॥ किञ्च-एगो मे सासओ अप्पा ५५५५NNARENERAL ॥५४॥ १परिक्षक
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy