SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कामदेवनृपति कथा। कथासंग्रहः Di+ad LIVARTANTARVARTANTANTANDONTROTA विद्याधरसहस्रपरिवृतो महत्या छत्रचामरादिऋद्ध्या राजमानो दिव्यवाद्यनिनादेन ब्रह्माण्डमापूरयन्त्रेष महानन्द एष महोत्सवः समेतीति सैनिकैरुत्फुल्ललोचनमीक्ष्यमाणः सार्धवर्षातिक्रमे निजसैन्यमागात् । राजा सूरदेवोऽपि तज्ज्ञात्वा निवृत्तशोकप्रमोदमेदुरश्री: सान्तःपुरपरिवारः कुमारदर्शनोत्कण्ठया तत्राऽऽगत्य दूरादपि लुठन्तं भालेन पादौ स्पृशन्तं हर्षाश्रुधारां वर्षन्तं सुतं कराभ्यामूर्वीकृत्योभयकराभ्यां गाढमालिङ्गयन् परमांऽऽनन्दमवाप । तं स एवाऽज्ञासीत् केवली वेति । अथ च-सङ्कटीभूतभूगोलो गजाश्वरथपत्तिभिः । विद्याभृतां विमानस्तु सम्पूर्णव्योममण्डपः ॥ १॥ हृद्यवाद्यपटुवानबधिरीकृतदिग्गणः । कान्ताद्वयसमायुक्तः पट्टमातङ्गमाश्रितः ॥ २॥ पित्रानुगाम्यमानाध्वा महाऋद्ध्या विभूषितः । शुभेऽह्निस्फारशृङ्गारः कुमारः प्राविशत्पुरीम्॥३॥। त्रिभिर्विशेषकं । अथ राजा बहुमानपूर्व सर्वान् भूचरान् खेचरान् समस्तभूपालान् विसृज्य कुमारसेव्यमानपादश्चिरं राज्यं पालयामास । अथ वर्धापयदागत्य भूपालं वनपालकः । स एव केवलज्ञानी त्वदाराममुपागमत् ॥१॥ कः स एवेति राज्ञोक्ते बभाषे वनपालकः । स्वयंवरात्कुमारेणागच्छताऽवन्दि यः पथि ॥२॥ दत्त्वा दानं ततस्तस्मै नृपतिः पारितोषिकम् । वनं गत्वा मुनि नत्वा श्रुत्वा तत्त्वार्थदेशनाम् ॥ ३॥ मध्ये पुरं समागत्य सत्यवैराग्यरङ्गतः । पुत्र राज्येऽभिषिच्याथ प्रवव्राजान्तिके मुनेः॥४॥ युग्मम् ॥ ततो राज्यं पितुः प्राप्य ॥५॥ NT
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy