SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥१५॥ अहो ! तदन्तकातडे, कः शरण्यः शरीरिणाम् ? ॥ ५ ॥ पितुर्मातुः स्वसुर्भ्रातुस्तनयानां च पश्यताम् । अत्राणो नीयते जन्तुः कर्मभिर्यमसद्यनि ॥ ६ ॥ शोचन्ति स्वजनानन्तं नीयमानान् स्वकर्मभिः । नेष्यमाणं तु शोचन्ति, नात्मानं मूढबुद्धयः ॥ ७ ॥ संसारे दुःखदावाग्नि- ज्वलज्ज्वालाकरालिते । वने मृगार्भकस्येव, शरणं नास्ति देहिनः ॥ ८ ॥ श्रोत्रियः श्वपचः स्वामी, पर्त्तिब्रह्मा कृमिश्च सः । संसारनाटये नटवत्, संसारी हन्त ! चेष्टते ॥ ९ ॥ न याति कतमां योनिं कतमां वा न मुञ्चति ? । संसारी कर्मसम्बन्धादवक्रयकुटीमिव ॥ १० ॥ समस्तलोकाकाशेऽपि, नानारूपैः स्वकर्मतः । वालाग्रमपि तन्नास्ति, यन्न स्पृष्टं शरीरिभिः ॥ ११ ॥ एक उत्पद्यते जन्तुरेक एव विपद्यते । कर्माण्यनुभवत्येकः, प्रचितानि भवान्तरे ॥ १२ ॥ अन्यैस्तेनार्जितं वित्तं, भूयः सम्भूय भुज्यते । स त्वेको नरकक्रोडे, क्लिश्यते निजकर्मभिः ॥ १३ ॥ यत्रान्यत्वं शरीरस्य, वैसदृश्याच्छरीरिणः । धनबन्धुसहायानां, तत्रान्यत्वं न दुर्वचम् ॥ १४ ॥ यो देहधनबन्धुभ्यो, भिन्नमात्मानमीक्षते । क्व शोकशङ्कुना तस्य, हन्ताऽऽतङ्कः प्रतन्यते ॥ १५ ॥ इति योगशास्त्रे ॥ ततः स्वल्पसमयेऽपि राजर्षिरेकाग्रध्यानतः पञ्चमे दिवसे पञ्चमीं गतिं जगाम, अहो ! दीक्षाया महिमा । यतः- ते धन्ना सप्पुरिसा, पवित्तिअं तेहिं धरणिवलयमिणं । निम्महिअ मोहपसरा, जिणदिक्खं जे पवज्जन्ति ॥ १ ॥ सव्वरयणामयेहिं, विभूसिअं जिणहरेहिं महिवलयं । जो कारिज समगं, तओवि श्रीजयविजय कथानकं ॥१५॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy