________________
॥श्रीनंदीषण मुनिचरित्रं॥
• नंदिषेणमुनेः पावें ययौ; तावत् स नंदिवेणो मुनिर्विहृत्योपाश्रये समायात ईर्यापथिकी प्रतिक्रम्य, भक्तपानप्रत्याख्यानं पारयित्वा भोक्तुमुपविशन्नभूत, तदा स प्राघूर्णकः साधुः प्राह, भो नंदिषेणमुने! मया पूर्व श्रुतं, यत्त्वयाऽभिग्रहो गृहीतोऽस्ति यथा ग्लानादिसाधूनां वैयावृत्त्यं कृत्वैव मया भोक्तव्यं, परमद्य त्वं ग्लानसाधुवैयावृत्त्यमकृत्वैव कथं भोक्तुमुपविशसि ? तत् श्रुत्वा स नंदिषेणो मुनिरुत्थाय प्राह; भो साधो ! स ग्लानः साधुः क्वाऽस्ति ? प्रापूर्णकसाधुरवदत्, पुरादहिः स्थितोऽस्ति, स चाउतिसाररोगेण पीड्यते, किञ्च तस्य तृडपि बाधते, अतस्त्वं शुद्धं बहु जलं गृहीत्वा तत्रागच्छ, ततो निजाऽऽहारपात्राण्याच्छाद्य सनंदिषेणर्षिः प्रासुकंपानीयं विहतु जलपात्रं गृहीत्वा श्राद्धगृहेषु गतः, अथ यत्र यत्र श्राद्धगृहे स पानीयार्थ याति, तत्र तत्र स देवो निजशक्त्या तज्जलमशुद्धं करोति; तथाप्यनिर्विण्णोऽसौ बहुषु गृहेषु भ्रमन्नकस्मात् स्वलब्धिप्रभावेण तत्सुरशक्तिमपि विजित्य शुद्धं जलं प्राप, ततस्तेन प्राघूर्णकसाधुना समं स नंदिषेणर्षिर्बहिरुद्याने तस्य साधोः समीपे ययौ, अथ तं साधु तथाऽतिसाररोगपीडितं दृष्वाऽस्य वैयावृत्त्येनाहं कृतकृत्यो भविष्यामीति मत्वा तेन प्रासुकोदकेन स्वयं तस्यापानद्वारं क्षालयितुं प्रवृत्तः, एवं यथा यथा स नंदिषेणर्षिस्तं प्रक्षालयति, तथा तथा स साधुरतीवदुर्गन्धोपेतमतिसारं मुञ्चति, नंदिषेणो विचारयति, अरे ! अयं भाग्यवानपि साधुः
स पानीयाथ या प्रासुकं पानीयं
विशद बहुजलंगी
॥१३॥