________________
॥ श्रीजिनाय नमः॥
ENERAEESED
॥१॥
[॥ अथ श्रीकामकुंभकथा प्रारभ्यते ॥ ।। कामकुंभ कथा
पान्तु वः श्रीमहावीर-स्वामिनो देशनागिरः॥ ॥9॥
भव्यानामान्तरमल-प्रक्षालनजलोपमाः॥१॥ यःप्राप्य दुष्प्राप्यमिदं नरत्वं । धर्मं न यत्नेन करोति मूढः।
क्लेशप्रबन्धेन सलब्धमब्धौ। चिंतामणिं पातयति प्रमादात् ॥२॥ धर्मतः सकलमंगलावली, धर्मतः सकलसौख्यसंपदः । धर्मतः स्फुरति निर्मलं यशो, धर्म एव तदहो विधीयतां ॥१॥ धर्मश्चिंतामणिः श्रेष्ठो, धर्मः कल्पद्रुमः परः । धर्मः कामदुधा धेनु-धर्मः सर्वफलप्रदः ॥२॥ वने रणे शत्रुजलाग्निमध्ये, महार्णवे पर्वतमस्तके वा। सुप्तं प्रमत्तं विषमस्थितं टि परिवा, रक्षन्ति पुण्यानि पुराकृतानि ॥३॥ व्यसनशतगतानां, क्लेशरोगातुराणां, मरणभयहतानां, दुःखशोकार्दितानां । जगति बहुविधानां पर व्याकुलानां जनानां , शरणमशरणानां नित्यमेको हि धर्मः ॥४॥ धर्माजन्म कुले शरीरपटुता सौभाग्यमायुर्वलं, धर्मेणैव भवंति पर निर्मलयशोविद्यार्थसंपत्तयः । कांताराच महाभयाच्च सततं धर्मः परित्रायते, धर्मः सम्यगुपासितो भवति हि स्वर्गापवर्गप्रदः ॥५॥ धर्मोऽयं पर धनवल्लभेषु धनदः कामार्थिनां कामदः, सौभाग्यार्थिषु तत्प्रदः किमपरं पुत्रार्थिनां पुत्रदः । राज्यार्थिष्वपि राज्यदः किमथवा नानाविकल्पैर्नृणां,
政政改要求逐项次班班家政