________________
नर्मदासुन्दरी
कथा
1119 11
- अथैकदा ज्ञानी मुनिरेकस्तत्र समायातः, तं प्रति बन्दनार्थं सर्वे गताः, देशनान्ते नर्मदापित्रा पृष्टम्, हे भगवन् ! केन कर्मणा नर्मदा दुःखिनी जाता, मुनिनोक्तं-सा पूर्वभवे नर्मदा नद्यधिष्ठायिका देव्यासीत्. एकदा शीतादिपरिषहसहनार्थं साधुरेकस्तत्र समायातः, तं द्दष्ट्वा मिथ्यात्वभावेन तया तस्योपसर्गाः कृताः परं साधुं निश्चलं ज्ञात्वा तं क्षामयित्वा सम्यक्त्वमङ्गीकृतम् । ततश्च्युत्वेयं तव तनया नर्मदासुन्द ॐ जाता, भवान्तराभ्यासतस्तद्गर्भोत्पत्तिसमये तस्या मातुर्नर्मदानदीस्नानदोहदो जात:, साधूपर्सगकरणतस्तया च दुःखं प्राप्तम्, इति श्रुत्वा ' 11 19 11 नर्मदया जातिस्मरणं प्राप्य दीक्षा गृहीता, एकादशाङ्गानि अधीत्य विविधतापसा शरीरशोषं विधायैक्रदा सा परिवारयुता चन्द्रपुरीं समागता, XXX महेश्वरदत्तोपाश्रये च स्थिता, श्वश्रूश्वसुरभर्त्रादीनुपलक्ष्य धर्मं श्रावयति, परं ते तां नोपलक्षयन्ति, अथैकदा तया महासत्या स्वलक्षण * व्याख्यातानि, यत्स्वरश्रवणैनैवेत्थं पुरुषादीनां वर्णाकारतिलमषवर्षादीनि ज्ञायन्ते, तत् श्रुत्वा महेश्वरेण चिन्तितम्, यद्येवंविधं वर्णनं शास्त्रमध्ये वर्त्तते, तदा नूनं मया सा निरपराधा प्रिया परित्यक्ता, इति चिन्ताकुलहृदयेन तेन पृष्टं. हे महासति ! उक्तज्ञानयुक्ता मयैका निर्दोषा मम स्त्री परित्यक्ता, साऽथ कीहशी भविष्यति. साध्व्योक्तं खेदं मा कुरु, सैवैषाहं नर्मदासुन्दर्यस्मीत्युक्त्वा प्रतीत्यर्थं तया सर्वोऽपि संकेतितवृत्तान्तः कथितः, अथ तामुपलक्ष्य महेश्वरेण क्षमा याचिता, साध्व्योक्तं- नैष तव दोषः, मम कर्मणामेवायं दोषः, ततो महेश्वरऋषिदत्ते वैराग्यतो दीक्षां जगृहतु, क्रमेण ते त्रयोऽप्यनशनं कृत्वा देवलाके गताः, भवैकेन च मोक्षं गमिष्यन्ति ।
॥ इति श्री शीलकुलके नर्मदासुन्दरी कथा संपूर्णा ॥
XXXXXXXXXXXXXXXXXXXXXXXXX