________________
श्रीगच्छाचारलघुवृत्तौ
॥ ४१ ॥
कालिकोत्कालिकभेदभिन्नानि सर्वसङ्ख्यया चतुरशीतिसहस्रसङ्ख्यान्यभवन् कथम् ? इति चेदुच्यते, इह यद् भगवदर्हदुपदिष्टश्रुतमनुसृत्य भगवन्तः श्रमणा विरचयन्ति तत्सर्वं प्रकीर्णकमुच्यते, अथवा श्रुतमनुसरन्तो यदात्मनो वचनकौशलेन धर्मदेशनादिषु ग्रन्थपद्धतिरूपतया भाषन्ते तदपि सर्व प्रकीर्णकं, भगवतश्च ऋषभस्वामिन उत्कृष्टा श्रमणसम्पदासीत् चतुरशीतिसहस्रप्रमाणा ततो घटन्ते प्रकीर्णकान्यपि भगवतश्चतुरशीतिसहस्रसङ्ख्यानि १ । एवं मध्यमतीर्थकृतामपि सङ्ख्यानि प्रकीर्णकसहस्राणि भावनीयानि २ । भगवतस्तु वर्द्धमानस्वामिनश्चतुर्दश श्रमणसहस्राणि तेन प्रकीर्णकान्यपि | भगवतश्चतुर्दश सहस्राणि ३ । अत्र द्वे मते- एके सूरयः प्रज्ञापयन्ति - इदं किल चतुरशीतिसहस्रादिकमृषभादीनां तीर्थकृतां श्रमणपरिमाणं प्रधानसूत्रविरचनसमर्थान् श्रमणानधिकृत्य वेदितव्यं इतरथा पुनः सामान्यश्रमणाः प्रभूततरा अपि तस्मिन् २ ऋषभादिकाले आसीरन् १ । अपरे पुनरेवं प्रज्ञापयन्ति-ऋषभादितीर्थकृतां जीवतामिदं चतुरशीतिसहस्रादिकं श्रमणपरिमाणं, प्रवाहतः पुनरेकैकस्मिन् तीर्थे भूयांसः श्रमणा वेदितव्याः, तत्र ये प्रधानसूत्रविरचनशक्ति| समन्विताः सुप्रसिद्धास्तद्गता अतत्कालिका अपि तीर्थे वर्त्तमानास्तेऽत्राधिकृता द्रष्टव्याः २ । एतदेव मतान्तरमुपदर्श| यन्नाह - ' अहवे' त्यादि, अथवेति प्रकारान्तरोपदर्शने यस्य ऋषभादेस्तीर्थकृतो यावन्तः शिष्यास्तीर्थे औत्पत्तिक्या १ वैन| यिक्या २ कर्मजया ३ परिणामिक्या ४ चतुर्विधया बुद्ध्या उपेताः - समन्विता आसीरन् तस्य ऋषभादेस्तावन्ति प्रकीर्णकसहस्राणि अभवन्, प्रत्येकबुद्धा अपि तावन्त एव २ । अत्रैके व्याचक्षते -इह एकैकस्य तीर्थकृतस्तीर्थेऽपरिमाणानि प्रकीर्णकानि भवन्ति, प्रकीर्णककारिणामपरिमाणत्वात्, केवलमिह प्रत्येकबुद्धरचितान्येव प्रकीर्णकानि द्रष्टव्यानि, प्रकीर्ण
प्रकीर्णककतृनिर्णयः
गा. १३५
२०
२५
॥ ४१ ॥
२८