SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ श्रीगच्छाचारलघुवृत्तौ ॥ ३७ ॥ जलार्द्रीकृतवस्त्राणि 'ददति' घर्षयन्तीत्यर्थः, 'गृहकार्यचिन्तिकाः' अगारिगृहव्यापारकरणतत्पराः, नैव ता आर्याः हे गौतम !, किन्तु कर्म्मकर्य इत्यर्थः ॥ १२४ ॥ वरघोडाइट्ठाणे वयंति ते वावि तत्थ वच्च॑ति । वेसत्थी संसग्गी उवस्सयाओ समीवंमि ॥ १२५ ॥ खरघो॰ ॥ खरघोटकादिस्थाने व्रजन्ति साधव्यः, तत्र खरशब्देन दासप्रायः, यदुक्तमोघनिर्युक्तौ - "खरउ यक्षरो दासप्रायः द्व्यक्षरिका दासी"ति, घोटकशब्देन द्यूतकारादिधूर्त्ताः, यदुक्तं निशीथचूर्णी - "घोडेहिं गाहा-घोडा वट्ठा जूयकरादिधुत्ता" इति, आदिशब्दादन्येऽपि तादृशा ग्राह्याः, तथा 'तेऽपि' खरघोटकादयः 'तत्र' आर्यास्थाने व्रजन्ति, अकालसकाले आगच्छन्तीत्यर्थः, वाशब्दात् परोक्षे ते ताभिः सह ता वा तैः सह दोहकगाथादिमुत्कलनेन परिचयं कुर्वन्तीति, तथा 'उपाश्रयसमीपे' साध्वीवसतिपार्श्वे वेश्या स्त्री तस्याः यद्वा वेश्यो ना तत्सदृशा याः स्त्रियस्तासां यद्वा वेश्यायाः स्त्री दासीलक्षणा तस्याः, यद्वा वेश्या या स्त्री नटपुरुषमेलापकलक्षणा तस्याः, वेश्या स्त्री तत्पुत्रीलक्षणा तस्या वा, अथवा वेषस्त्री - योगिन्यादिवेषधारिका तस्याः, यदिवा वेषस्य - रजोहरणादिद्रव्यलिङ्गस्य अर्थः- उदरपूरणमुग्धवञ्चनादिप्रयोजनं वेषार्थः स च विद्यते यस्यासौ वेषार्थी, सर्वभ्रष्टाचारी साधुरित्यर्थः, आर्षत्वाद्दीर्घः, तस्य संसर्गो भवति हे गौतम! साऽऽर्या व्यक्षरिकोच्यते नत्वार्येति ॥ १२५ ॥ छक्का मुक्कजोगा धम्मका विगह पेसण गिहीणं । गिहिनिस्सिज्जं वाहिति संथवं तह करतीओ ॥ १२६ ॥ छक्का० ॥ 'षट्कायमुक्तयोगाः' को भावः ? - पटुकायेषु - पृथिव्यादिषु मुक्तो - दूरीकृतो योगो - यत्नालक्षणो व्यापारो आर्याधिकारः गा. १२५ २६ २० २५ ॥ ३७ ॥ २८
SR No.600260
Book TitleGacchachar Prakirnakam
Original Sutra AuthorVanarrishi
Author
PublisherAgamoday Samiti
Publication Year1923
Total Pages88
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy