SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ यथा-"इष्टानामर्थानां प्राप्तावभिमानगर्वसम्भूतः । स्त्रीणामनादरकृतो बिब्बोको नाम विज्ञेयः॥१॥ स्थानासनगमनानांत गृहकथावहस्तधूनेत्रकर्मणां चैव । उत्पद्यते विशेषो यः श्लिष्टः स तु विलासः स्यात् ॥२॥” अन्ये त्याहु:-"विलासो नेत्रजोर्जनं गा. ज्ञेयः" तथा शयनीयं-मञ्चकादिरूपं करोति, किंभूतं ?-डमरुकमणिन्यायेन सकारोऽत्रापि योज्यः 'सतूलीय'ति गुप्तदवरकसहितं, पुनः किंभूतं ?-'सबिब्बोक' गल्लोपधानसहितं, उक्तञ्च कल्पे-"उभओ विब्बोयणे उभयतः-शिरोऽन्तपादान्तावाश्रित्य 'विन्बोयणे'त्ति उपधाने गूण्डके यत्रेति, तथा 'उद्वर्त्तयति' पिष्टिकादिना मर्दयतीत्यर्थः 'शरीरं' स्ववपुः, स्वानादीनि आदिशब्दाद्विलेपनमङ्गे कण्ठे पुष्पमालादि हस्ते तालवृन्तादिकं धूपनं वस्त्रादेः दृशोरञ्जनं दन्तकाष्ठमित्यादिकं याहू करोति सा आर्या नोक्ता श्रीवर्द्धमानस्वामिना, किन्तु वेषविडम्बनी जिनाज्ञाकन्दलीकुठारिका प्रवचनमालिन्यकारिणी अनाचारिणी सम्यक्त्वतस्करिणी प्रमादसरणिः मुनिमनोभङ्गकारिणी सत्साधुयोधवारुणीति ॥ ११४ ॥ गेहेसु गिहत्थाणं गंतूण कहा कहेइ काहीया । तरुणा अहिवडते अणुजाणे साइ पडिणीया ॥११५॥ | गेहे०॥ गृहेषु गृहस्थानां गत्वा 'कथा' धर्माभासकथां संसारव्यापारविषयां वा 'कथयति' वचनविलासेन विस्तारयती|त्यर्थः, 'काहीया'त्ति 'कथिका' कथाकथिकाऽऽर्या । तथा या च तरुणादीन् पुरुषान् 'अहिवडते'त्ति 'अभिमुखमागच्छतः' सन्मुखमागच्छमानान् 'अनुजानाति' आगम्यतां भवतामागमनं भव्यं भव्यमस्मदीयस्थानजातं स्थीयता, गमनप्रस्तावे पुनरागमनं विधेयं, परत्वं न चिन्तनीयं, अस्मद्योग्य कार्य ज्ञाप्यमित्यादिकं वचनाडम्बरं करोतीत्यर्थः सा मुण्डी, इकारः पादपूरणे, प्रत्यनीकमिव-प्रतिसैन्यमिव या सा प्रत्यनीका गुरुगच्छसप्रवचनस्य प्रतिकूल विधानादिति ॥११५॥ किश्च *OSAURUSISALUSAASAASAS
SR No.600260
Book TitleGacchachar Prakirnakam
Original Sutra AuthorVanarrishi
Author
PublisherAgamoday Samiti
Publication Year1923
Total Pages88
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy