________________
मवति 'आत्मवशः' न कुत्रापि परवशी भवतीत्यर्थः, 'सः' मुनिर्भवति 'अनात्मवशः' परवशः य आर्याणां 'अनुचरत्वं | कुर्यम्' सेवकत्वं निष्पादयन् तिष्ठतीति ॥ ६८ ॥ अंत्र दृष्टान्तमाह
खेलपडिअम पाणं म तरह जेह मच्छिम विमोएडं । अज्जाणुचरो साहू न तरह अप्पं विमोएडं ॥ ६९ ॥ खेल || श्लेष्मपतितमात्मानं 'न तरति' न शक्नोति यथा मक्षिका 'मोचयितुं' पृथक् कर्त्तुं स्थानान्तरे गन्तुमित्यर्थः एवं 'आर्यानुचरः' साध्वीपाशबद्धपादः साधुः 'न तरति' न शक्नोति 'आत्मानं विमोचयितुं' स्वेच्छयां ग्रामादिषु विहते[मित्यर्थः ॥ ६९ ॥
| साहुस्स नत्थि लीए अज्जासरिसा हु बंधणे उवमा । घम्मेण सह ठवतो नयसरिसी जाण असिलेसों ॥ ७० ॥ साहु० ॥ 'साधोः' मुनेः 'नास्ति' न विद्यते, व १-'लोके' प्राकृतजने 'आर्यासदृशी' साध्वीतुल्या 'हु:' निश्चितं 'बम्धने' पाशलक्षणे 'उपमा' तत्सदृशं वस्त्वित्यर्थः, अपवादापवादमाह - ' जाण'त्ति याः साध्वीः संयमभ्रष्टा धर्मेण सह स्थापयन् साधुः 'नयसदृशः' आगमवेदीत्यर्थः 'अश्लेषः' अबन्धको ज्ञातव्य इति । "क्वचिद्वितीयादेः” इति प्राकृतसूत्रेण | जाणेत्यत्र द्वितीयार्थे षष्ठी । अथवा 'धर्मात्' श्रुतचारित्रात् काचिद्रष्टां 'ज्ञात्वा' दृष्ट्वा तत्पार्श्वे गच्छोपदेशपरिचयादिकं कृत्वा 'धर्मेण सह' श्रुतचारित्रलक्षणेन सह स्थापयन् उपलक्षणत्वात् अतीवगहम वृक्षदुर्गे व्याघ्रसिंहादिश्वापद दुर्गे म्लेच्छादिभयमनुष्यदुर्गे गर्त्तापाषाणादिविषमस्थाने विषमपर्वते वा प्रस्खलमानां सर्वगात्रैः पतन्ती वा बाह्रादावङ्गे गृहम् सर्वाङ्गीणं वा धारयन् एवमुदकपङ्कादी अपकसन्तीं अपोह्यमानां वा मष्टचित्तां दीप्तचित्तां लाभादिमदेन परवशी
आर्यानुचरदोषाः गा.
६२-७०
५
१०
१४