SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ बाहुद्वय २ ऊरुद्वय ४ पृष्ठि ५ शिरो ६ हृदयो ७ दर ८ लक्षणानि, उपाङ्गानि-कर्णनासिकादीनि, चकारान्न विलोकयन्ति आर्यानुच. कदाचिद् दृष्ट्वाऽपि नान्यस्मिन् वर्णयन्ति स गच्छ इति ॥ ६२॥ किञ्च परदोषाःगाबजेह अप्पमत्ता अज्जासंसग्गि अग्गिविससरिसं । अजाणुचरो साह लहइ अकिति खु अचिरेण ॥६॥ ६२-७० __ वजे॥'वर्जयत' मुञ्चत 'अप्रमत्ताः' प्रमादवर्जिताः सन्तो यूयं, कं ?-'आर्यासंसर्ग' एकान्तसाध्वीपरिचयादिकमित्यर्थः, किंभूतं ?-'अग्निविषसदृशं यथाऽग्निना सर्व भस्मसात्स्यात्तथाऽऽसां संयोगे चारित्रं भस्मसाद्भवति, यथा च तालपुटविषं जीवानां प्राणनाशकरं भवति तथाऽऽसां परिचयश्चारित्रप्राणनाशकरः, कूलवालुकवत् । तथा 'आर्यानुचर' आर्या-साध्वी तस्या अनुचरः-किङ्करः, कः ?-'साधुः' मुनिः 'लभते' प्राप्नोति 'अकीति' असाधुवादं यथा अहो साधुत्वं अहो तपोधनत्वं अहो त्यक्तगृहगृहिणीसङ्गत्वं अहो शिवमार्गसाधकत्वं अहो इन्द्रियबाधकत्वमित्याद्यवर्णवादरूपं खुला यस्मादर्थे 'अचिरेण' इति स्तोककालेन, अतो हे मुनयः! आर्यासंसर्ग वर्जयतेति ॥ ६३॥ थेरस्स तवस्सिस्स व बहुस्सुअस्स व पमाणभूयस्स । अज्जासंसग्गीए जणजंपणयं हविजाहि ॥६४॥ । थेर० ॥ 'स्थविरस्य' वृद्धस्य 'तपस्विनो वा' अष्टमादितपोयुक्तस्य वा 'बहुश्रुतस्य' अधीतबह्वागमस्य वा 'प्रमाणभूतस्य' सर्वजनमान्यस्य एवंविधस्य साधोरपि 'आर्यासंसर्गेण' बहुतमसाध्वीपरिचयेन 'जणजपणय'ति लोकमध्येऽपकीर्तिलक्षणं भवेत् यथा एष सुलक्षणो नेति ॥ ६४॥ किं पुण तरुणो अबहुस्सुओ अ नयवि हु विगिट्टतवचरणो। अज्जासंसगीए जणजपणयं न पाविजा? ॥६५॥ गच्छा .४
SR No.600260
Book TitleGacchachar Prakirnakam
Original Sutra AuthorVanarrishi
Author
PublisherAgamoday Samiti
Publication Year1923
Total Pages88
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy