SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ गीअ० परम० गाथाद्वयम् ॥ 'गीतार्थस्य' अधीतगुरुपार्श्वसूत्रार्थस्य 'वचनेन' उपदेशेन 'विषं' गरलं, किंभूतं ?'हालाहलं' उत्कटं 'पिवेत्' गलरन्ध्रे पातयेत्, विनेय इति शेषः, किंभूतः १ - 'निर्विकल्पः ' सर्वथा गतशङ्कः, भूक्षयेच्च विष| गुटिकादिकं यद्विषगुटिकादिकं 'तत्क्षणे' भक्षणप्रस्तावे समुपद्रवेत्, पञ्चत्वं प्रापयेदित्यर्थः ॥ ४४ ॥ 'परमार्थतः ' तत्वतः तद्विषं न भवति, 'अमृतरसायनं' अमृतरसतुल्यं 'खु' निश्चितं तद्विषं 'निर्विघ्नं' विघ्नविवर्जितं 'यद्' यस्मात् कारणात् न तद्विषं मारयति - न प्राणत्यागं करोति, अतः कथमपि 'मृतोऽपि' मरणं प्राप्तोऽपि 'अमृतसम एव' जीवन्निव भवतीत्यर्थः, शाश्वतसुखहेतुत्वादिति, गीतार्थस्येत्यत्र चतुर्भङ्गी यथा-संविग्ना नाम एके नो गीतार्थाः १ न संविग्ना नाम एके गीतार्थाः २ संविना नाम एके गीतार्था अपि ३ न संविग्ना नाम एके नो गीतार्थाः ४, तत्र न प्रथमभङ्गस्था धर्माचार्याः आगमपरिज्ञानाभावात् १ द्वितीयभङ्गस्था अपि न धर्माचार्याश्चारित्ररहितत्वात्, यदि शुद्धप्ररूपका भवन्ति साधून् वन्दन्ते साधूंश्च न वन्दापयन्ति तदा संविग्नपाक्षिका जायन्त इति २ तृतीयभङ्गस्था धर्माचार्या एव, समग्रचारित्रज्ञानयुक्तत्वात् नन्वेवं| विधास्तु गणधरादय एव भवन्ति न संप्रतिकाले तथाविधा अप्रमादिनः, कथं धर्माचार्यत्वं तेषां १, उच्यते - वर्तमानकाले यत्सूत्रं वर्त्तते तस्य गुरुपरम्परया गृहीतार्थाः विनिश्चितार्थाः गीतार्था भवन्ति, दुःषमासेवार्त्तसंहननाद्यनुभावतो वीर्यमगोपयन्तः संविग्ना एव अतो न तेषां धर्माचार्यत्वं व्यभिचरतीति ३, चतुर्थभङ्गस्था अपि न धर्माचार्याः, ज्ञानक्रियाशून्यत्वात् केवल लिङ्गमात्रोपजीवित्वाच्चेति ४ ॥ ४५ ॥ अथोक्तविपरीतमाह- अगीअत्थस्स वयणेणं, अभियंपि न घुंटए । जेण नो तं भवे अमयं, जं अगी अत्थदेसियं ॥ ४६ ॥ गीतार्थमहिमा अ गीतार्थम हिमा गा. ४६-७ ५ १० १४
SR No.600260
Book TitleGacchachar Prakirnakam
Original Sutra AuthorVanarrishi
Author
PublisherAgamoday Samiti
Publication Year1923
Total Pages88
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy