SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ श्रीगच्छाचारलघु वृत्तौ ॥ ९॥ | प्रतिलेखनापूर्वकं धारयतोऽजीवसंयमः १०, प्रेक्ष्य चक्षुषा शयनासनादीनि कुर्वीतेति प्रेक्षासंयमः ११, पार्श्वस्थादीनामुपेक्षणमुपेक्षासंयमः १२, सचित्ताचित्तमिश्ररजोऽवगुण्डितपादादीनां प्रमार्जनं प्रमार्जनासंयमः १३, अनुपकारकं वस्तु विधिना परिष्ठापयतः परिष्ठापना संयमः १४, द्रोहेर्व्यादिभ्यो निवृत्तिर्धर्मध्यानादिषु प्रवृत्तिर्मनः संयमः १५, एवं वाक्काययोरपि १६।१७, तस्य योगः - प्रतिलेखनादिव्यापारस्तेन निस्सारश्चर्वितताम्बूलवदिति यद्वा 'संजम० ' निर्गतं सारं - स्वर्गपवर्गफलं यस्य स निस्सारः, केन ? - संयमश्च योगश्च योगोद्वहनं संयमयोगं तेन, वाध्यसंयमयोगोद्वहन हेतुत्वादिति ॥ २३॥ | कु० ॥ कुलं - गृहं ग्रामं सकरं नकरं गो १ महिषी २ उष्ट्र ३ च्छाग ४ च्छगली ५ तृण ६ पलाल ७ बूरक ८ काष्ठा ९ङ्गार १० क्षेत्र ११ गृह १२ दूरदेशव्यवसायि १३ बलीवर्द १४ घृत १५ चर्म १६ भोजन १७ सेइमाणाक १८ रूपाष्टादशकररहितं राज्यं - सप्ताङ्गमयं, अथवा राज्यमिति सर्वत्र योज्यं, यथा कुलराज्यं ग्रामराज्यं नगरराज्यं, यद्वा कुलग्रामनगराणि यत्रैवंविधं राज्यं 'पयहिय'त्ति त्यक्त्वा पुनरिति शेषः 'यः' साध्वाभासः 'तेषु' कुलादिषु 'करोति' विधत्ते 'हु: ' | निश्चितं 'ममत्वं' ममैतदिति मन्यते 'सः' पूर्वोक्तः केवलं 'लिङ्गधारी' वेषमात्रधारी संयमः पञ्चाश्रवविरमण ५ पञ्चेन्द्रियनिग्रह १० कषायचतुष्टयजय १४ दण्डत्रयविरति १७ लक्षणस्तस्य योगो-व्यापारस्तेन निस्सारो - गतसार इति ॥ २४ ॥ पुनर्गाथात्रयेणोत्तमाचार्यस्वरूपमाह विहिणा जो उ चोएइ, सुत्तं अत्थं च गाहई । सो घण्णो सो अ पुण्णो य, स बंधू मुक्खदायगो ॥ २५ ॥ स एव भव्वसत्ताणं, चक्खुभूए वियाहिए । दंसेइ जो जिणुद्दिहं, अणुट्ठाणं जहट्ठियं ॥ २६ ॥ उत्तमाचार्य स्वरूपं गा. २५-७ २० २५ ॥९॥ २८
SR No.600260
Book TitleGacchachar Prakirnakam
Original Sutra AuthorVanarrishi
Author
PublisherAgamoday Samiti
Publication Year1923
Total Pages88
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy