________________
॥ २१ ॥
विश्वत्रये च स्वकुले जिनेशो, व्याख्यायते श्रीकलशायमानः । अतोत्र पूर्ण कलशं लिखित्वा, जिनार्चनाकर्म कृतार्थयामः ॥४॥ (उपजाति) जिनेन्द्रपादैः परिपूज्यपुष्ट-रतिप्रभाव-रतिसन्निकृष्टम् । भद्रासनं भदकरं जिनेन्द्र-पुरो लिखेन्मङ्गल-सत्प्रयोगम् ॥५॥ (') त्वत्सेवकानां जिननाथ ! दित्तु, सर्वासु सर्वे निधयः स्फुरन्ति । अतश्चतुर्धा नवकोणनन्या-वर्तः सतां वर्तयतां सुखानि ॥६॥ (') पुण्यं यशःसमुदयः प्रभुता महत्वं, सौभाग्य-श्री-विनय-शर्म-मनोरथाश्च । वर्धन्त एव जिननायक ! ते प्रसादात्-तवर्धमान-युग-संपुट-मादधामः ॥णा (वसन्त) त्वद्वध्य-पञ्चशरकेतन-भावक्लृप्तं, कतु मुधा भुवननाथ ! निजापराधम् । सेवां तनोति पुरतस्तक मीनयुग्मं, श्राद्धैः पुरो विलिखितं निरुजाऽऽङ्गयुक्त्या ॥८॥ (")
-
॥२१॥
Jain Education in
For Personal & Private Use Only
www.jainelibrary.org