SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञतिवृत्तिः (मल०) ॥२८॥ लादर्वाक्तनं तृतीयं मण्डलमुपसङ्क्रम्य चारं चरतः तदा एकं योजनशतसहस्रं षट् च योजनशतानि अष्टाचत्वारिंशदधि- प्राभते कानि द्विपञ्चाशतं चैकषष्टिभागान् योजनस्य परस्परमन्तरं कृत्वा चारं चरतः, प्रागुक्तयुक्त्या पूर्वमण्डलगतादन्तरपरि-४४प्राभृत|माणादत्रान्तरपरिमाणमस्य पञ्चभियोजनैः पञ्चत्रिंशता चैकषष्टिभागैर्योजनस्य हीनत्वात् , 'तया णमित्यादि, तदा- प्राभृतं सर्वबाह्यान्मण्डलादाक्तनतृतीयमण्डलचारचरणकालेऽष्टादशमुहूर्ता रात्रिर्भवति, चतुर्भिर्मुहूत्कषष्टिभागैरूना, द्वादशमुहूर्तो दिवसश्चतुर्भिरेकषष्टिभागैर्मुहूर्तस्याधिकः । एवं खलु'इत्यादि, एवम्-उक्तप्रकारेण खलु-निश्चितमनेनोपायेन एकतो|ऽप्येकः सूर्योऽभ्यन्तरं प्रविशन् पूर्वपूर्वमण्डलगतादन्तरपरिमाणादनन्तरे अनन्तरे विवक्षिते मण्डले अन्तरपरिमाणस्याष्टाचत्वारिंशतमेकषष्टिभागान् द्वे च योजने वर्धयति हापयत्यपरतोऽप्यपरः सूर्य इत्येवंरूपेण एतौ जम्बूद्वीपगतौ सूयौं तदनन्तरान्मण्डलात्तदनन्तरं मण्डलं सामन्तौ सामन्तौ एकैकस्मिन् मण्डले पूर्वपूर्वमण्डलगतादन्तरपरिमाणात् अनन्तरेऽनन्तरे विवक्षिते मण्डले पञ्च पञ्च योजनानि पञ्चत्रिंशतं चैकषष्टिभागान् योजनस्य परस्परमन्तरपरिमाणं निर्वेष्ट यन्तौ-हापयन्तौ हापयन्तावित्यर्थः, द्वितीयस्य षण्मासस्य त्र्यशीत्यधिकशततमे अहोरात्रे सूर्यसंवत्सरपर्यवसानभूते सर्वा&ाभ्यन्तरं मण्डलमुपसङ्क्रम्य चार चरतः, 'ता जया ण'मित्यादि, तत्र यदा एतौ द्वौ सूर्यो सर्वाभ्यन्तरं मण्डलमुपसङ्क्रम्य चारं चरतः तदा नवनवतियोजनसहस्राणि पद योजनशतानि चत्वारिंशानि-चत्वारिंशदधिकानि परस्परमन्तरं कृत्वा ॥२८॥ |चारं चरतः, अत्र चैवं रूपान्तरपरिमाणे भावना प्रागेव कृता, शेषं सुगमम् ॥ इति श्रीमलयगिरिविरचितायां सूर्यप्रज्ञप्तिटीकायां प्रथमस्य प्राभृतस्य चतुर्थ प्राभृतप्राभूतम् ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy