SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञतिवृत्तिः (मल.) १ प्राभृते ४ प्राभृतप्राभृतं टिभागलामकतोऽप्येकः सूर्यो द्वे योजना या पूर्वस्मात्पूर्वस्मात्तदनन्तराम कषष्टिभागान् र B.२७॥ SAREERSEASNA प्राप्यते इति भवति यथोक्तमत्रान्तरपरिमाणं,'तया णमित्यादि,यदा सर्वाभ्यन्तरान्मण्डलात् तृतीये मण्डले चारं चरतस्तदा अष्टादशमुहूर्तो दिवसो भवति, चतुर्भिः 'एगट्ठिभागमुहुत्तेहिं' प्राकृतत्वात्पदव्यत्यासः, ततोऽयमर्थः-मुहूत्तैकषष्टिभागैरूनो, द्वादशमुहूर्त्तारात्रिश्चतुर्भिमुहूत्तैकषष्टिभागैरधिका, एव'मित्यादि, एवमुक्तेन प्रकारेण खलु निश्चितमेतेनोपायेन प्रतिमण्डलमेकतोऽप्येकः सूर्यो द्वे योजने अष्टाचत्वारिंशतं चैकषष्टिभागान् विकम्प्य चारं चरति, अपरतोऽप्यपरः सूर्य इत्येवरूपेण निष्क्रामन्तौ तौ जम्बूद्वीपगतौ द्वौ सूर्यो पूर्वस्मात्पूर्वस्मात्तदनन्तरान्मण्डलात्तदनन्तरं मण्डलं सङ्क्रामन्तौ एकैकस्मिन् मण्डले पूर्वपूर्वमण्डलगतान्तरपरिमाणापेक्षया पश्च पञ्च योजनानि पञ्चत्रिंशतं चैकषष्टिभागान् योजनस्य परस्परमभिवर्द्धयन्तावभिवर्द्धयन्तौ नवसूर्यसंवत्सरस्य व्यशीत्यधिकशततमेऽहोरात्रे प्रथमषण्मासपर्यवसानभूते सर्वबाह्यमण्डलमुपसङ्कम्य चारं चरतः, 'ता जया ण'मित्यादि ततो यदा एतौ द्वौ सूर्यो सर्वबाह्य मण्डलमुपसङ्क्रम्य चारं चरतः तदा तावेकं योजनशतसहस्रं षट् च शतानि षष्ट्यधिकानि १००६६० परस्परमन्तरं कृत्वा चारं चरतः, कथमेतदवसेयमिति चेत् ?, उच्यते, इह प्रतिमण्डलं पञ्च योजनानि पञ्चत्रिंशच्चैकषष्टिभागा योजनस्येत्यन्तरपरिमाणचिन्तायामभिवर्द्धमानं प्राप्यते, सर्वाभ्यन्तराच मण्डलात्सर्वबाह्यं मण्डलं त्र्यशीत्यधिकशततमं, ततः पञ्च योजनानि व्यशीत्यधिकेन शतेन गुण्यन्ते, जातानि नव शतानि पञ्चदशोत्तराणि योजनानां ९१५, एकषष्टिभागाश्च पञ्चत्रिंशत्सङ्ख्या अशीत्यधिकेन शतेन गुण्यन्ते जातानि तेषां चतुःषष्टिशतानि पञ्चोत्तराणि ६४०५, तेषामेकषष्ट्या भागे हृते लब्धं पञ्चोत्तरं योजनशतं १०५, एतत्प्राक्तने योजनराशौ प्रक्षिप्यते, जातानि दश शतानि विंशत्यधिकानि योजनानि १०२०, एतत् सर्वाभ्यन्तरमण्डलगतोत्तरपरिमाणे ॥२७॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy