SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ ४ता एरसिए णं चंदिमसूरिया जोइसिंदा जोइसरायाणो कामभोगे पञ्चणुभवमाणा विहरति ( सूत्रं १०६)॥ | 'ता कहं ते इत्यादि, ता इति पूर्ववत् , कथं-केन प्रकारेण केनान्वर्थेनेति भावः चन्द्रः शशीत्याख्यात इति वदेत ? भगवानाह-'ता चंदस्स ण'मित्यादि, ता इति पूर्ववत् , चन्द्रस्य ज्योतिषेन्द्रस्य ज्योतिषराजस्य मृगाङ्के-मृगचिह्ने विमाने अधिकरणभूते कान्ताः-कमनीयरूपा देवाः कान्ता देव्यः कान्तानि च आसनशयनस्तम्भभाण्डमात्रोपकरणानि आत्मनाऽपि चन्द्रो देवो ज्योतिपेन्द्रो ज्योतिपराजः सौम्यः-अरौद्राकारः कान्तः-कान्तिमान् सुभगः सौभाग्ययुक्तत्वात् वल्लभो जनस्य प्रियं-प्रेमकारि दर्शनं यस्य स प्रियदर्शनः शोभनमतिशायि रूपं-अङ्गप्रत्यङ्गावयवसन्निवेशविशेषो यस्य स सुरूपः,ता-ततःएवं खलु अनेन कारणेन चन्द्रः शशी चन्द्रः शशीत्याख्यात इति वदेत् , किमुक्तं भवति?-सर्वात्मना कमनीयत्वलक्षणमन्वर्थमा&ाश्रित्य चन्द्रः शशीति व्यपदिश्यते, कया व्युत्पत्त्येति, उच्यते, इह 'शश कान्ता'विति धातुरदन्तश्चौरादिकोऽस्ति, चुरादयो हि धातवोऽपरिमिता न तेषामियत्ताऽस्ति, केवलं यथालक्ष्यमनुसर्त्तव्याः, अत एव चन्द्रगोमी चुरादिगणस्यापरिमिततया परमार्थतो यथालक्ष्यमनुसरणमवगम्य द्विवानेव चुरादिधातून पठितवान् न भूयसः, ततो णिगन्तस्य शशनं शश इति घञ्प्रत्यये शश इति भवति, शशोऽस्यास्तीति शशी, स्वविमानवास्तव्यदेवदेवीशयनासनादिभिः सह कमनीयकान्तिकलित इति भावः, अन्ये तु व्याचक्षते-शशीति सह श्रिया वर्तते इति सश्रीः प्राकृतत्वाच्च शशीतिरूपं, 'ता कहं ते'इत्यादि, ता इति पूर्ववत् , कधी-केन प्रकारेण केनान्वर्थेनेति भावः सूर आदित्यः २ इत्याख्यायते इति वदेत् ?, भगवानाह-'ता सूराइया'इत्यादि, सूर आदिः-प्रथमो येषां ते सूरादिकाः, के इत्याह-'समयाइति वा' समया-अहोरात्रादिकालस्य sain Education Internation ! For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy