________________
४ वरावभाससमुद्रादिष्वपि सङ्ख्येययोजनप्रमाणो विष्कम्भोऽसङ्ख्येययोजनप्रमाणः परिक्षेपोऽसङ्ख्येयाश्चन्द्रादयो वक्तव्याः,
तथा चाह–ता कुंडलवरावभासणं'इत्यादि, 'एवं रुयगे समुद्दे'इत्यादि, 'एवं तिपडोयारा'इत्यादि, एवमुक्तेन प्रकारेण रुचकवरावभासात्समुद्रात्परतो द्वीपसमुद्राश्च त्रिप्रत्यवतारास्तावत् ज्ञातव्या यावत् सूर्यो द्वीपः सूर्यः समुद्रः सूर्यवरो द्वीपः सूर्यवरः समुद्रः सूर्यवरावभासो द्वीपः सूर्यवरावभासः समुद्रः, उक्तं च जीवाभिगमचूर्णी-"अरुणाई दीवसमुद्दा तिपडोयारा यावत्सूर्यवरावभासः समुद्रः"इति, 'सवेसिमित्यादि, सर्वेषां रुचकसमुद्रादीनां सूर्यवरावभाससमुद्रपर्यन्तानां विष्कम्भपरिक्षेपज्योतिपाणि रुचकद्वीपसदृशानि वक्तव्यानि असङ्ख्येययोजनप्रमाणो विष्कम्भोऽसङ्ख्येययोजनप्रमाणः परिक्षेपोऽसङ्ख्येयाः प्रत्येकं चन्द्रसूर्यग्रहनक्षत्रतारका वक्तव्या इति भावः, 'सूरवरावभासोदण्णं समुदं' इत्यादि सुगम, नवरमेते पञ्च देवादयो द्वीपाः पञ्च देवादयः समुद्राः प्रत्येकमेकरूपा न पुनरेषां त्रिप्रत्यवतारः, उक्तं च
जीवाभिगमचूर्णी-"अंते पंच द्वीपा पंच समुद्दो एकप्रकारा" इति, जीवाभिगमसूत्रेऽप्युक्तम्- "देवे नागे जक्खे भूये है ४य सयंभुरमणे य । एक्केके चेव भाणियवे, तिपडोयारं नस्थि"त्ति, तत्र देवे द्वीपे द्वौ देवी देवभद्रदेवमहाभद्रौ देवे समुद्रे
देववरदेवमहावरौ नागे द्वीपे नागभद्रनागमहाभद्रौ नागे समुद्रे नागवरनागमहावरौ यक्षे द्वीपे यक्षभद्रयक्षमहाभद्रौ यक्षे | समुद्रे यक्षवरयक्षमहावरौ भूते द्वीपे भूतभद्रभूतमहाभद्रौ भूते समुद्रे भूतवरभूतमहावरौ स्वयंभूरमणे द्वीपे स्वयम्भूभद्रस्वयम्भूमहाभद्रौ स्वम्भूरमणे समुद्रे स्वम्भूवरस्वयम्भूमहावरी, इह नन्दीश्वरादयः सर्वे समुद्रा भूतसमुद्रपर्यवसाना इक्षुरसोदसमुद्रसदृशोदकाः प्रतिपत्तव्याः, स्वयम्भूरमणसमुद्रस्य तूदकं पुष्करोदसमुद्रोदकसदृशं, तथा जम्बूद्वीप इति नाम्ना
Jain Education International
For Personal &Private Use Only
www.jainelibrary.org