SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ 50055%-545-05 कनककनकप्रभा देवी, घृतोदे समुद्रे सद्यो विस्यन्दितगोघृतास्वादं तत्कालपविकसितकर्णिकारपुष्पवर्णाभं तोयं कान्त-1 सुकान्तौ तत्र देवी, इक्षुवरे द्वीपे सुप्रभमहाप्रभो देवी, इक्षुवरे समुद्रे जात्यवरपुण्ड्राणामिक्षूणामपनीतालोपरित्रिभागानां| ४ विशिष्टगन्धद्रव्यपरिवासितानां यो रसः श्लक्ष्णवस्त्रपरिपूतस्तस्मादपीष्टतरास्वादं तोयं पूर्णपूर्णप्रभौ च तत्र देवी, नन्दी-2 श्वरे द्वीपे कैलाशहस्तिवाहनौ देवी, नन्दीश्वरे समुद्रे इक्षुरसास्वादं तोयं सुमनःसौमनसौ देवी, एते अष्टावपि च द्वीपा अष्टावपि समुद्रा एकप्रत्यवताराः, एकैकरूपा इत्यर्थः, अत ऊर्दू तु द्वीपाः समुद्राश्च त्रिप्रत्यवतारास्तद्यथा-अरुणः |अरुणवरोऽरुणवरावभासः कुण्डलः कुण्डलवरः कुण्डलवरावभास इत्यादि, तत्रारुणे द्वीपे अशोकवीतशोकौ देवी, अरुणोदे समुद्रे सुभद्रमनोभद्रौ, अरुणवरे द्वीपे अरुणवरभद्रअरुणवरमहाभद्रौ, अरुणवरे समुद्रे अरुणवरभद्रारुणवरमहाभद्रौ अरुणवरावभासे द्वीपे अरुणवरावभासभद्रअरुणवरावभासमहाभद्रौ अरुणवरावभासे समुद्रे अरुणवरावभासवरारुणवरावभासमहावरौ, कुण्डले द्वीपे कुण्डलकुण्डभद्रौ देवौ कुण्डलसमुद्रे चक्षुःशुभचक्षुःकान्तौ कुण्डलवरे द्वोपे कुण्डलवरभद्रकुण्डलवरमहाभद्रौ कुण्डवरे समुद्रे कुण्डलवरकुण्डलमहावरौ कुण्डलवरावभासे द्वीपे कुण्डलवरावभासभद्रकुण्डलवरावभासमहाभद्रौ कुण्डलवरावभासे समुद्रे कुण्डलवरावभासवरकुण्डलवरावभासमहावरौ, एते सूत्रोपात्ता द्वीपसमुद्राः, अत ऊदै | तु सूत्रानुपात्ता दयन्ते, कुण्डलवरावभाससमुद्रानन्तरं रुचको द्वीपः रुचकः समुद्रः, ततो रुचकवरो द्वीपो रुचकवरः समुद्रः तदनन्तरं रुचकवरावभासो द्वीपो रुचकवरावभासः समुद्रः, तत्र रुचके द्वीपे सर्वार्थमनोरमौ देवौ रुचकसमुद्रे सुमनःसौमनसौ रुचकवरे द्वीपे रुचकवरभद्ररुचकवरमहाभद्रौ रुचकवरे समुद्रे रुचकवररुचकमहावरौ रुचकवराव Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy