________________
कृत्य परियति-पर्यटन्ति । पुनः प्रश्नयति-ता तेसि ण'मित्यादि, ता इति पूर्ववत्, तेषां-ज्योतिष्काणां देवानां यदा इन्द्रश्चयवते तदा ते देवा इदानीं-इन्द्रविरहकाले कथं प्रकुर्वन्ति ?, भगवानाह-'ता'इत्यादि, ता इति पूर्ववत्, चत्वारः पञ्च वा सामानिका देवाः समुदितीभूय तत् शून्यमिन्द्रस्थानमुपसम्पद्य विहरन्ति-तदिन्द्रस्थानं परिपालयन्ति, सञ्जातौ शुक्लस्थानादिकं पञ्चकुलवत् , कियन्तं कालं यावत्तदिन्द्रस्थानं परिपालयन्तीति चेदत आह-यावदन्यस्तत्रेन्द्र उपपन्नो भवति, 'ता इंदठाणे ण'मित्यादि, ता इति पूर्ववत् इन्द्रस्थान कियत्कालमुपपातेन विरहितं प्रज्ञप्तं ?, भगवा-४ नाह-'ता'इत्यादि, जघन्येन एकं समयं यावत् उत्कर्षेण षण्मासान् । 'ता बहिया णमित्यादि प्रश्नसूत्रमिदं प्राग्वत् व्याख्येयं, भगवानाह-'ता ते ण'मित्यादि, ता इति पूर्ववत् ते मनुष्यक्षेत्राहिवर्त्तिनश्चन्द्रादयो देवा नोोपपन्ना नापि कल्पोपपन्नाः किन्तु विमानोपपन्नास्तथा नो चारोपपन्नाः-चारयुक्ताः किन्तु चारस्थितिकाः, अत एव नो गतिरतयो नापि गतिसमापनकाः, पक्केष्टकासंस्थानसंस्थितैर्योजनशतसाहनिकैरातपक्षेत्रः, यथा पक्का इष्टका आयामतो दीर्घा भवति विस्तरतस्तु स्तोका चतुरस्रा च तथा तेषामपि मनुष्यक्षेत्राद्वहिर्व्यवस्थितानां चन्द्रसूर्याणामातपक्षेत्राण्यायामतो अनेकयोजनशतसहस्रप्रमाणानि विस्तरत एकयोजनशतसहस्राणि चतुरस्राणि चेति, तैरित्थंभूतैरातपक्षेत्रैः साहनिकाभिः-अनेकसहस्रसङ्ख्याभिर्वाह्याभिः पर्षद्भिः, अत्रापि बहुवचनं व्यक्त्यपेक्षया, 'महये'त्यादि पूर्ववत् , दिवि भवान् दिव्यान् भोगभोगान्-भोगार्हान् शब्दादीन् भोगान् भुञ्जाना विहरन्ति, कथंभूता इत्याह-शुभलेश्याः, एतच्च विशेषणं चन्द्रमसः प्रति, तेन नातिशीततेजसः किन्तु सुखोत्पादहेतुपरमलेश्याका इत्यर्थः, मन्दलेश्याः, एतच्च विशेषणं सूर्यान् प्रति, तथा च एत
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org